________________
[७] ॥ श्रीवङ्कचूलचरित्रम् ॥
अत्रैव भारते वर्षे विमलो नाम राजाऽभूत्, तस्य सुमङ्गला नाम्नी प्रिया, तयोश्चापत्यद्वयं जातम्, तत्रैकः पुष्पचूलनामा पुत्रः, द्वितीया च पुष्पचूला नाम्नी कन्यका । यौवने च पित्रैका राजकन्या पुत्राय परिणायिता, पुत्री तु कस्मैचिद्राजपुत्राय दत्ता, परं दुष्कर्मोदयाद् बाल्ये एव पत्युर्मरणात्सा वैधव्यं प्राप्ता, भ्रातृस्नेहात् पितुर्गेहे एवास्थात् । अथ पुष्पचूलस्तु चौर्यादिव्यसनासक्तत्वेन' पौरजनानत्यन्तं पीडयन् लोके वङ्कचूलाख्यां प्राप्तः तद्भगिन्यपि तत्समानबुद्धित्वेन वङ्कचूलेति प्रसिद्धाऽभवत् । ततो राज्ञा लोकतस्तस्योपालम्भं बहुतरमाकर्ण्य क्लिष्टेन सता स पुराद् बहिष्कृतः, तदा पत्नीभगिन्यावपि तत्स्नेहात् सार्थे निर्गते । ततो वङ्कचूलः पत्नीभगिनीभ्यां सह निर्भयः सन् कानिचिरदण्यानि भ्रमन् धनुधरैभिल्लैदृष्टः, तत्र चाऽऽकृत्यैव तं राजपुत्रं ज्ञात्वा, सादरं प्रणम्य, प्रश्नपूर्वकं तद्वृत्तान्तम् आकर्ण्य, बहुमानतः स्वपल्ली समानीय, मूलपल्लीपतेर्मृतत्वात् तत्स्थाने तं ते स्थापितवन्तः । ततो वङ्कचूलो भिल्लैः सार्धं महीतलं लुण्टन् तत्र सुखेन तस्थौ।
अथैकदा वर्षाप्रादुर्भावसमये कियद्भिर्मुनिभिः परिवृताः श्रीचन्द्रयशः-सूरयः सार्थपिरभ्रष्टास्तत्र समेताः, तदा नव्योत्पन्नाङ्करसम्मात् सचित्तजलसङ्घट्टाच्च भीरव आचार्या विहाराऽयोग्यतां ज्ञात्वा तां पल्ली प्रविष्टाः । वङ्कचूलोऽपि मुनीन् दृष्ट्वा कुलीनत्वात् प्रणमति स्म । तदा गुरवो धर्मलाभाशिष दत्त्वा तं प्रति वसतिं ययाचिरे, तेनाप्युक्तम्, हे स्वामिन् ! तुभ्यं वसतिं दास्यामि, परं मम सीमायां कदापि धर्मो न वाच्यः, यतो येषां हिंसाऽसत्यचौर्यादीनां त्यागेन धर्मः सम्पद्यते, तैरेवास्माकमाजीविका विद्यते इति, एवं तेनोक्ते सति गुरुभिस्तद्वचोऽङ्गीकृत्य तद्दर्शितनिरवद्यस्थानके६ स्वाध्यायध्यानादिधर्मकृत्यं कुर्वद्भिश्चतुर्मासान् यावत्तस्थे । तत्र च