________________
२२० • सुलभ-चरित्राणि १°परदारापरद्रव्यपरद्रोहपराङ्मुखः कोऽपि महात्मा पुरुषः समायास्यति तदा तत्पुरुषचरणरजसैवाहं पवित्रीभविष्याम्यर्थात्स महात्मा पुरुष एव मां पावयिष्यति" तद्गङ्गादेवीवचनं श्रुत्वा देवराजोऽप्याह" गङ्गे ! चैवंविधस्तु त्वदुक्तो महात्मा देवलोके पातालेऽपि नास्ति तर्हि मनुष्यलोकस्य तु का कथा इतीन्द्रवदननिर्गतवचनं श्रुत्वा हृदि कुपिता गङ्गादेवी चैतादृग्विधस्य महात्मनो दर्शनार्थं सहस्रशो नेत्राणि विधाय कमपि महान्तमनुपमपुरुषमन्वेषयत्परमीदृग्विधः पुरुषः क्वापि नोपलब्धः प्रतिदिनमेवं तादृक्पुरुषं गवेषमाणया गङ्गादेव्या कियता कालेन वाराणस्यां नगर्यां श्रीपार्श्वकुमारो दृष्टस्तत्तीर्थङ्करदर्शनादेव सञ्जातप्रमोदा वाराणसीनगर्यामागत्य पञ्चकोशं यावत्तदभ्यर्णे११ स्थितवती तेन श्री पार्श्वनाथप्रभावेण स्वयमतीव पवित्रीभूय त्रिभुवनपावनसमर्था बभूव । श्रीपार्श्वनाथचरणप्रक्षालनतस्तस्याः सर्वमेव पापं प्रलयं गतमत एव वाराणसीपुरीपार्वे पञ्चक्रोशं यावद्गङ्गानद्यां जलस्नाने पापिनां पापं प्रणश्यतीत्युच्यते । तथैवैतादृशानि बहूनि श्रीपार्श्वनाथाभिधतीर्थनाथप्रतिमाचमत्काराणि दृश्यन्ते । तथा चाद्याप्यष्टोत्तरशतपरिमितानि १२निखिलापद्विनाशकानि भूरिभव्यजननमस्कृतानि सकललोककामितदायकानि श्रीपार्श्वनाथप्रतिबिम्बानि नभसि विरहन्त्य एव कारणात् सपादलक्षदेशान्तर्गतश्रीफलवद्धिकाभिधग्रामेस्मिन्नेव पौषबहुलदशमीदिवसे श्रीचतुर्विधसङ्गमिलनेन श्रावकसमूहेन बहुद्रव्यव्ययपूर्वको महीयान् समर्चनः क्रियते तदस्मिन्विषयेऽदभ्रभव्यप्रतिबोधाय कथानकमभिधीयते।
श्रीविक्रमादित्य क्षितिपतिराज्याच्चतुःसप्तत्याधिकैकादशशत ११७४ प्रमिते१३ वत्सरे श्रीमद्देवसूरिनामान आचार्यवर्याः सञ्जाताः येषां त्रिचत्वारिंशदधिकैकादशशतवर्षे जन्म तथा द्वापञ्चाशदधिकैकादशशतवर्षे दीक्षा तथा चतुस्सप्तत्यधिकैकादशशतवर्षे सूरिपदं तथा षड्विशत्यधिकद्वादशशतवर्षे स्वर्गवासः यैराचार्यैश्चतुरशीतिवादिनामधिपः कुमुदचन्द्राभिधो दिगम्बरचन्द्रोऽपि पराजितः।
यच्चोक्तम्, श्रीदेवसूरिकृत प्रमाणनयतत्त्वालोकालङ्कारस्य रत्करा