________________
श्रीपौषदशमीमाहात्म्यकथा • २१९ गङ्गायाः सत्कारादिकमपि न कृतं, ततः सन्मानदानाभावतो विलक्षीभूतारे गङ्गादेवी स्वस्थानमेतुं पुनर्यावत्पश्चाद्वलते तावदिन्द्रस्तत्पाबें समाययावागत्य चैवमुक्तं "भगवति गङ्गे ! समागच्छ भवत्याः किं कार्यमस्ति" तच्छुत्वा गङ्गादेव्या प्रोक्तम्, “भो देवेन्द्र ! त्वं प्रचुरसाम्राज्यमदेन प्रोन्मत्तीभूतोऽस्यत:४ कारणादसम्सु तव किं प्रयोजनं यतो ममागमने त्वं प्रत्युत्थानादिकमपि न कुरुषे" । तद्वचनामाकर्येन्द्रो जगाद "भगवति गङ्गे ! क्षमस्वेदानीमस्मदपराध, यतो मया भवत्या एव चिन्ता क्रियते" तदा गङ्गादेव्योक्तम्, “का सा तव मच्चिन्ता ?" देवेन्द्रोऽप्यूचे मनुष्यलोकवासिनो मनुष्या बालस्त्रीगोब्रह्महत्यादिमहापापानपि कृत्वा त्वयि स्नात्वा तानि सर्वाण्यपि तुभ्यं समर्प्य त्वद्यात्रानिर्मातारो लोकाः स्वनिलयं प्रतियान्ति ततस्तैस्त्वयि मुक्तान् पापान् त्वं तु कुत्रस्थाने क्षिपसीति चिन्तया मम चित्तं भृतमस्तीति श्रुत्वा गङ्गादेवी प्रोवाच, "भो देवेन्द्र ! मया तानि सर्वाण्यपि पापानि जनार्दनपादयोः प्रक्षिप्यन्ते। यच्चोक्तं स्मृत्यन्तरे विष्णुपादोदकी गङ्गेति तेषां पापानां च परमेश्वरजनार्दनपादस्पर्शनान्मुक्तिर्भवतीति" गङ्गावचनमाकर्ण्य सुरेन्द्रः प्राह, "हे गङ्गे ! त्वं मैवं ब्रूहि तवेदं वचो भ्रममूलकमेव । यतः-कौरवपाण्डवानां युद्धे यदा पाण्डवैः स्वबलं प्रशंसितं तदा कृष्णवासुदेवेनाऽप्युक्तम्, भोः । पाण्डवा ! भवद्भिरभिमानो नाभिकर्त्तव्यो यतो युवयोर्बलं सम्यङ्मया दृष्टमस्ति तत्र भवतां बलमेव न हि हेतुर्भवन्तस्तु तत्र कारणभूता एव किं त्वयं मम सुदर्शनचक्र एव सर्वान् मारयेदेतासामष्टादशाक्षौहिणीनां मारणरूपपातकस्तु मत्पादयोरेव वर्त्ततेऽत एव मया तत्पापप्रक्षालनार्थं गङ्गानदी निस्सारिता सैव लोकानां पापप्रक्षालनं करिष्यती" त्यादीन्द्रवाक्यमाकर्ण्य गङ्गादेवी पुनरिन्द्रमब्रवीत् "यद्येवं तर्हि अहं त्वीश्वरस्य शिरसि तिष्ठाम्यतो मदीयं पापमीश्वरस्य मस्तके पतति" तद्वचः श्रुत्वा पुनर्देवेन्द्रः प्राह, भगवति ! गङ्गे ! इत्येतदपि तव भ्रम एव यतो महादेवेन स्वकीयत्रिशूलेन ब्रह्मदेवस्य पञ्चमगर्दभशिरच्छेदितमतस्तत्पातकपरिहारेच्छया स महादेवस्तु त्वां शिरसि सन्धत्तेऽतः स तव स्वाम्यपि स्वपापं तवैवार्पयति तर्हि मदीयं पापमीश्वरमस्तके पततीति तव वचनमुपहास्यजनकामेवेति सुरेन्द्रवचो निशम्य गङ्गा प्राह "एवमस्तु परं मम यात्रायां