________________
श्रीमौनैकादशी कथा • २११ पूजयन्ति । एवं च अनेके लोका मौनैकादशीमाराधयन्ति ।
अथ एकदा सकुटुम्बेन तेन श्रेष्ठिना मौनैकादशीतिथ्याम् अहोरात्र पौषधः कृत पौषधग्राहिभिः सर्वैरपि रात्रौ कायोत्सर्गः कृतः । अथैकदा चौरैतिम् मौनैकादश्यां सुव्रतः श्रेष्ठी न ब्रूते ३०अपह्रियमाणमपि वस्तु न पश्यति इति विचार्य चौरघाटी३१ तद्गृहे प्रविष्टा उद्योतं (दीपकम्) विधाय चौरा यावत् पश्यन्ति तावत् सर्वत्र पदे पदे स्वर्णराशिमेव पश्यन्ति, यावता गृह्णन्ति तावता शासनदेव्या सर्वे चौराः स्तम्भिताः, अत एव शासनदेवः पूज्यते कायोत्सर्गेणाराध्यते । अथ३२ प्रात:काले स्तम्भितान् सधनान् ३२पर द्रव्यहरणोद्यतान् चौरान् दृष्ट्वा लोको मीलिताः । ३४तलारक्षकाश्च तान्वेष्टयित्वा स्थिताः । अथ सकुटुम्बः सुव्रतः स्थापनाचार्यसमीपे पौषधं प्रपार्य उपाश्रयं गत्वा गुरून् नत्वा धर्मं श्रुत्वा गृहे समागतः, तत्र चौरान् दृष्ट्वा मा राजा चौरान् मारयतु इति बुद्ध्या श्रेष्ठिना मौनं कृतम्, ततः तलारक्षका आगताः शासनदेव्या स्तम्भिताः अथ मध्याह्ने समागतो राजा, बहुप्राभृतपूर्व३५ सुव्रतः पादयोर्लग्नः राज्ञाऽपि व्यतिकर:३६ पृष्टः, सुव्रतेन कथितः वृत्तान्तः पुनःधर्मपदेशं दत्त्वा राजा तोषितः, राज्ञा उक्तम् वरं वृणु, तदा सुव्रतेन उक्तम्-अवध्याश्चौरा३७ इति । राज्ञा तथा स्वीकृते शासनदेव्या तलारक्षकाः चौराश्च मुक्ताः श्रेष्ठिनाऽपि पारणकं कृतम् ।
पुनरपि एकदा दावानल इव समग्रं पुरं ज्वलनाय३८ अग्निरुत्थितः तदा नगरस्थः सर्वलोक इतस्ततो नष्टः, किन्तु ३९गृहीतपौषधः श्रेष्ठी स्वव्रतरक्षार्थं न कृत्रापि गतः, सर्वं नगरमरण्यमिव ज्वलितं परन्तु सुव्रतश्रेष्ठिनो हट्ट-गृहादि किमपि न अज्वलत् । प्रात:काले समुद्रे द्वीप इव तस्य, हट्ट-गृहादि वीक्ष्य सर्वेऽपि पौराः सुव्रतं प्रशंसयामासुः, यथासत्त्वेन धार्यते पृथ्वी, सत्त्वेन तपते रविः । सत्त्वेन वायवो वान्ति, सर्वं सत्त्वे प्रतिष्ठितम् ॥१॥