________________
२१० • सुलभ-चरित्राणि तस्मिन् गृभारं समारोप्य स श्रेष्ठी प्रव्रज्यां गृहीत्वा सम्यक्प्रपाल्य प्रान्ते अनशनं विधाय मृतः स्वर्गञ्च प्राप्तः । अथ गृहस्वामी सुव्रतः श्रेष्ठी पूर्वजन्मनि एकादशीमाराधितवान् तत एकादशस्वर्णकोटीनां नायको जातः । तदा एकादशस्वर्णकोटीश्वरो दाता भोक्ता २ नगरश्रेष्ठिसुवर्णपट्टालङ्कृतभालो राजमान्यः सत्यवादी सर्वत्र विश्रुतः अतिप्रतापी, सज्जनश्रेष्ठः व्यापारिकशिरोरत्नं सुखेन कालं निनाय । अथ कालान्तरेण एकादशस्त्रीणामेकैकः पुत्रो जातः, एवमेकादश पुत्राः, तत्परिवारोऽपि विपुलो जातः अथान्येद्यु:२८ उद्याने धर्मघोषो मुनीश्वर सपरिवारः समवसृतः राजाद्याः सुव्रतश्च वन्दितुं गताः गुरुणाऽपि तदानीं तपोमहिमा व्याख्यातः
यद् दूरं यद् दुराराध्यं, यच्च दूरे व्यवस्थितम् । तत् सर्वं तपसा साध्यं, तपो हि दुरतिक्रमम् ॥१॥
तत्रापि पञ्चमीतपसा ज्ञानपञ्चकस्यावाप्तिः, अष्टमीतपसाऽष्टकर्मनिषूदनम्,२९ एकादशीतपसा एकादशाङ्गानां सुखागमनम्, चतुर्दशीतपसा चतुर्दशानां पूर्वाणामागमनम्, पौर्णमासीतपसा सम्पूर्णागमनम् एवं श्रुत्वा सुव्रतो मूर्छामापन्नो जातिस्मृत्या पूर्वभवं मौनैकादशीतपोविधानं विज्ञाय पुनरपि गुरुसमीपे आजन्म यावद् मौनैकादशीतपः उच्चचार । गुरुणा उक्तम्एकादशाङ्गानामाराधना कर्तव्या, सम्यक् तपः कार्यम्, पूर्वभवे एकादशीव्रतं कृत्वा निर्मलज्ञानमाप्तवान् तदुद्यापनवशाच्च अत्र एकादश स्वर्णकोट्यः प्राप्ताः, निर्मलं यशः, लोके प्रभुत्वम्, अधिकारित्वम्, नगरश्रेष्ठित्वम्, राजमान्यत्वं च प्राप्तम्, अत एव अस्मिन् तपसि उद्यमो विधेयः । एवमुक्त्वा धर्मलाभाशिषं दत्त्वा गुरवोऽन्यत्र विहृताः । अथ सुखेन सह कुटुम्बन श्रेष्ठी एकादशीदिवसे प्रहराष्टकम् आहारादित्यागरूपं पौषधं विदधाति । लोकेऽपि मौनैकादशीपर्वणः प्रसिद्धिर्मान्यता च जाता यतः वृद्धमान्यं सर्वे मानयन्ति यथा महादेवेन भाले स्थापितत्वात् तत्कालमात्रमपि चन्द्रं द्वितीयादिने लोकाः