________________
[ २४ ] ॥ श्रीमौनैकादशी कथा ॥
अरस्य प्रव्रज्या नमिजिनपतेर्ज्ञानमतुलं, तथा मल्लेर्जन्म व्रतमपमलं केवलमलम् । वलक्षैकादश्यां सहसि लसदुद्दाममहसि, अदः कल्याणानां क्षिपतु विपदः पञ्चकमिदम् ॥१॥
अर्थः अरस्य-अरजिनस्य प्रव्रज्या - दीक्षा, नमिजिनपतेः नमिनाथस्य अतुलम् - अनुपमं ज्ञानम्, तथा मल्ले:- मल्लिजिनस्य जन्म, अपमलम्-मलरहितं व्रतम्-दीक्षां, अलम्-सर्वद्रव्यगुणपर्यायप्रेक्षणे समर्थं केवलम् - केवलज्ञानं च, एतद् - अद: लसदुद्दाममहसि - तेजोवति, सहसि - मार्गशीर्षमासे वलक्षैकादृश्याम् शुक्लेकादश्यां सञ्जातं कल्याणानां पञ्चकं विपदः ४ क्षिपत् ।
यथाऽस्मिन् भरते कल्याणानां पञ्चकं सञ्जातमेवं पञ्चसु भरतेषु पञ्चसु च ऐरवतेषु - दशसु क्षेत्रेषु मीलित्वा जातं पञ्चाशत् (५०) कल्याणानाम् । एवं भूतभाविवर्तमानकालाऽपेक्षया जातं सार्धशतं ( १५० ) । एकोपवासेऽपि सार्धशतोपवासफलं भवति । अस्मिन् दिने उपवासं कृत्वा मौनमाधाय अहोरात्र ' पौषधं विधाय स्थेयम्, भणनं गुणनं विना नाऽन्यत् किमपि वक्तव्यम् । पारणकोत्तरदिवसयोरेकभक्तं (एकवारं भोजनम्) कर्तव्यम्, पारणकदिवसे जिनगृहे गन्तव्यम्, जिनस्याग्रे फलानि उपढौक्य भावतो जिनाच कर्तव्या, ततो गुरुसमीपे गत्वा नत्वा ज्ञानपूजां विधाय साधूनां संविभागं कृत्वा पारणा कर्तव्या, एवं एकादशवर्षैकादशमासपर्यन्तं यावत् व्रतं कर्तव्यम्, द्वादशमे वर्षे व्रते पूर्णे पौषधं पारयित्वा गुरुनभिवन्द्य जिनदेवस्याग्रे एकादश पक्वान्नानि, एकादश फलानि, एकादशविधानि धान्यानि एवं सुन्दरं वस्तु एकादशसङ्ख्यया उपढौकनीयम्, जघन्यतोऽपि एकादश श्रावकवात्सल्यम्, सङ्घपूजा, एकादशाङ्गपुस्तकलेखनम्, इत्याद्युद्यापनं कर्तव्यम् - अत्र कथानकम्