SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ [१६] ॥श्रीचेल्लणामहासतीचरित्रम् ॥ पालयन् रुचिरं शीलम्, शुद्धभावेन देहमान् । चेल्लणेव समाजोति, 'कल्याणकमलां किल ॥१॥ तथाहि-विशालायां नगर्यां 'चेटीकृतानेकारातिश्चेटकाभिधो जैनधर्मधुरन्धरो राजा राज्यं करोति स्म । स च न्यायपुरस्सरं निजराज्यं पालयन् सकलां निजप्रजां सर्वदा प्रीणयामास । तस्य राज्ञः पृथक् पृथक् रेराज्ञीकुक्षिसमुद्भवाः शुभस्वप्नैश्च सूचिताः सप्त कन्या अभवन् । क्रमात्तासु प्रभावत्यभिधाना प्रथमा पुत्री वीतभयनगरस्वामिन उदायनाख्यभूपतेर्दत्ता १. द्वितीया पद्मावत्यभिधा पुत्री चम्पाधीशस्य दधिवाहनाख्यस्य भूपतेर्दत्ता २. तृतीया मृगावती कौशाम्बीनाथस्य शतानीकाख्यस्य नृपत्तेर्दत्ता ३. चतुर्थी शिवाख्या तनया उज्जैयिनीस्वामिनः प्रद्योतनाख्य भूपतेर्दत्ता ४. पञ्चमी ज्येष्ठाख्या पुत्री कुण्डग्रामाधिपस्य श्रीवीरप्रभुज्येष्ठभ्रातुर्नन्दिवर्धनस्य दत्ता ५. षष्ठी सुज्येष्ठा, सप्तमी च चेल्लणाऽद्यापि कुमारिके एव राजभुवने तिष्ठतः स्म । ते द्वे अपि कन्ये रतिप्रीतितुल्ये अतुल्यरुपश्रियं धारयन्त्यौ धर्मकार्यकुशले बभूवतुः । सकलकला-कलापकुशले ते द्वे अपि मिथः परमप्रीतियुते साक्षात् मूर्तिद्वयरूपे सरस्व-त्याविव रेजतुः अथान्येद्युस्ताभ्यां सुज्येष्ठाचेल्लणाभ्यामलङ्कृते शुद्धान्तः पुरे कापि स्थविरा मिथ्यात्विनी तापसी समागता । सा च तयोरग्रे शिवधर्मोपदेशं दातुं लग्ना, तया च तस्य शिवधर्मस्य महती प्रशंसा कृता । परं जैनधर्मदृढहृदया सुज्येष्ठा तयोक्तम् शिवधर्म तिरस्कारयामास । यथा कूपे स्यादधर्म स्नानम्, वापीस्नानं च मध्यमम् । तडागे वर्जयेत् स्नानम्, नद्यां स्नानं न शोभनम् ॥१॥ गृहे चैवोत्तमं स्नानम्, नदीस्नानं तु मध्ययम् । कूपे चाप्यधर्म स्नानम्, तडागे नैव कारयेत् ॥२॥
SR No.022626
Book TitleSulabh Charitrani Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy