________________
[१५] ॥श्रीसुभद्राचरित्रम् ॥ शीलं पालयतां पुंसा, शुद्धभावेन सन्ततं । श्वशीभवन्ति गीर्वाणा, सुभद्राया इवाचिरात् ॥१॥
वसन्तपुराख्ये नगरे जितशत्रुनामा राजा राज्यं करोति स्म । तस्य नृपस्य जैनधर्मपालको जिनमतिनामा श्रेष्ठी मन्त्रिप्रवरो विद्यते, तस्य च परमार्हती श्राविका तत्त्वमालिनीनाम्नी प्रियास्ति । ततः शुभस्वप्नसूचिता सुभद्राख्या पुत्री बभूव । क्रमण सम्प्राप्तयौवना सा देवाङ्गनेवातिमनोहररूपलावण्यधारिणी यूनां मनांसि व्याकुलयामास । सर्वकलाकलिताऽसौ "जैनधर्मैकलीनमानसा सर्वदा देवपूजा, गुरुभक्ति, प्रतिक्रमणादिकार्यदक्षा बभूव । अथ स जिनमतिः श्रेष्ठी तां निजसुतां सुभद्रां केनचिज्जैनधर्मविदा पुरुषेण सह परिणाययितुं समीहते । अथान्यदा चाम्पुपरवास्तव्यो 'बौद्धधर्मवासितान्तःकरणो बुद्धदासाख्यो युवा व्यापारी व्यापारार्थं तत्र वसन्तपुरनगरे समाययौ । तत्र स विविधक्रयाणकव्यापार कुर्वन् भूरिधनं समर्जयति स्म । अथैकदा स बुद्धदासो मार्गे व्रजन्ती, सखीसमूहोपेतां, रूपनिर्जितसुराङ्गनां च तां सुभद्रां विलोक्य मदनातुरः कञ्चिन्नरं पप्रच्छ, भो पुरुषोत्तम ! कस्येयं पुत्री, सा च विवाहितास्ति, वा कुमारिकास्ति ? तेनोक्तम्, भो बुद्धदास ! इयं जिनमत्यभिधस्य श्रेष्ठिनः सुभद्राख्या तनया वर्तते, किञ्च साद्यापि कुमारिकैवास्ति । तस्य जनकश्च तां जैन धर्मविदा शुद्धश्रावकेण सहैव परिणाययितुं समीहते, नान्यस्य परधर्मिणः कस्यापि पुरुषस्य स निजपुत्रीं दास्यति । तत् श्रुत्वा स बुद्धदासो दध्यौ, अथाहं कथञ्चिदपि जैनीभूयैतां परिणयामि, यतो मे मानसं तस्यामेव विलग्नमस्ति । जैनीभूतं च मां विलोक्य स जिनमतिश्रेष्ठ्यपि सुखेनेमां निजपुत्री सुभद्रां दास्यति, इति विचिन्त्य स बुद्धदासो जिनधर्मसम्बन्धिशास्त्राणि पठित्वा सामायिकप्रतिक्रमणदिजैनधर्मक्रियासु कुशलो बभूव।