________________
श्रीकामकुम्भकथा • ९३ यस्य नास्ति स्वयं प्रज्ञा, शास्त्रं तस्य करोति किम् । लोचनाभ्यां विहीनस्य, दर्पण: किं करिष्यति ॥३९॥ पण्डितेषु गुणाः सर्वे, मूर्खे दोषास्तु केवलाः । तस्मान्मूर्खसहस्रेषु, प्राज्ञ एको न लभ्यते ॥४०॥ अकुलीनो ६१नृपीभूतो, मूर्खपुत्रश्च पण्डितः । अधनेन धनं प्राप्तम्, तृणवन्मन्यते जगत् ॥४१॥
अथ राज्ञा तस्मै मन्त्रिणे सौभाग्यसुन्दर्यभिधाना स्वकन्या निजं चार्द्ध राज्यं दत्तम् । तथैवानेकगजहयरत्नमणिमाणिक्यस्वर्णादिभृतानि द्वात्रिंशत्प्रवहणान्यप्यर्पितानि, एवंविधां तस्यद्धिं दृष्ट्वा सागरदत्तव्यवहारी हृदि प्रज्वलितुं लग्नः । अथ स सागरदत्तो निजशेषक्रयाणकानि विक्रीय तत्रस्थैर्नानाविधैरपरैः क्रयाणकैः प्रवहणमापूर्य पश्चान्मनसीjया ज्वलमान: स्वदेशीयत्वाज्जनेन मन्त्रिणमाकारयामास । तदा मन्त्रिणापि निजश्वसुरराज्ञे प्रोक्तं यदहं यास्यामि स्वेदेशे, तदा राज्ञप्यर्द्धराज्यमूल्यप्रमाणानि स्वर्णमाणिक्यादिरत्नानि भृत्वाऽष्टौ प्रवहणानि तस्य समर्पितानि । समुद्रतटं यावच्च राजा तं प्रेषयितुं समायातः, ततस्तौ मन्त्रिव्यवहारिणौ समुद्रमध्ये चलितो, अथ स सागरदत्तव्यवहारी मन्त्रिणो रत्नभृतानि प्रवहणानि रूपवती च पत्नीं दृष्ट्वा लोभदशां प्राप्तः सन् चिन्तयति
कोहो पीइं पणासेइ, माणो विणयनासणो । माया मित्तिं पणासेइ, लोहो सव्वविणासणो ॥४२॥
अथ कपटेनैनं चेन्मारयामि तदैतत्सर्वमपि मे स्वाधीनं भवेत् । इति विचार्य तेन मन्त्रिणा सहाऽधिका प्रीतिर्मण्डिता।
ददाति प्रतिगृह्णाति, गुह्यमाख्याति पृच्छति । भुङ्क्ते भोजयते चैवम् षड्विधं प्रीतिलक्षणम् ॥४३॥