________________
५२
वर्गचूलिका सोच्चा निसम्म अप्पणो चेव सुहुमाए पडिलेहाए अणुत्तरं जोगखेमपयं लंभिए समाणे सो वि ताव तं आढाइ परिजाणेति वंदति नमंसति सक्कारेइ संमाणेइ जाव कल्लाणं मंगलं देवयं चेइयं पज्जुवासति - इति (सूत्रकृताङ्गे २-७-८०६) । ततश्चआपुच्छिउण सूरी सुगुरु तह भद्दबाहुसंभूयं । संलेहणपवन्नो गओ अग्गिदत्तो पढमकप्पे ॥८॥
सूरीन् - श्री यशोभद्राचार्यान्, तथा भद्रबाहुसम्भूतौ सुगुरू आपृच्छ्य - उत्तमार्थार्थं विधिनाऽनुज्ञां गृहीत्वा, संलिख्यतेऽनया शरीरकषायादीति संलेखना - कषायशरीरकृशताऽऽपादक आगमोक्तस्तपोविशेषः, आगमप्रसिद्धचरमानशनक्रियेति यावत्, तदुक्तम् - संलेहणा इहं खलु तवकिरिया जिणवरेहिं पण्णत्ता । जं तीए संलिहिज्जइ, देहकसायाइ णिअमेणं ॥ ओहेणं सव्व च्चिय तवकिरिया जइ वि एरिसी होइ । तह वि अ इमाऽवसिट्ठा घिप्पइ जा चरिमकालम्मि - इति (पञ्चवस्तुके १३६६ - १३६७) । तां प्रपन्नः - संवेगातिशयेनाङ्गीकृतवान्, अग्निदत्तो मुनिः समाधिना कालं कृत्वा प्रथमकल्पे - सौधर्मदेवलोके, गतः ॥८॥ उपसंहरति -
१. ख.ग.च -
आपत्थिउ० ।