________________
वर्गोपनिषद्
तस्स ट्ठिइ तिन्नि सया तित्तीसा एगरासिवरिसाणं । तम्मि य मीणपइट्ठो(8) संघस्स सुयस्स उदओ अत्थि ॥६॥
तस्य च दुष्टग्रहस्य त्रयस्त्रिंशदधिकत्रिशतवर्षाणां स्थितिरेकराशौ भवति, तस्मिश्च मीनराशौ प्रविष्टे - मीनप्रविष्टे सति सङ्घस्य श्रुतस्य चोदयो भविष्यति ।
इय जसभद्दगुरूणं वयणं सोच्चा मुणी सुवेरग्गो । पायाहिणं कुणंतो पुणो पुणो वंदए पाए ॥७॥
इति यशोभद्रगुरूणां वचनं श्रुत्वा सुतरामुत्पन्नं वैराग्यं यस्य सः-सुवैराग्यः, अहो महामोहवशीकृता जीवा एवं जिनबिम्बाऽऽगमसाधूनां हीलनां कृत्वा भयङ्करे भवार्णवे बम्भ्रमणं कुर्वन्तीत्यादिभावनया प्रोद्भूतनिर्वेदप्रकर्ष इत्यर्थः, मुनिः गुरून् प्रदक्षिणां कुर्वन् पुनः पुनस्तेषां पादान् वन्दते, एकस्याप्यार्यवचनस्योपदेष्टुर्वन्दनाद्यर्हत्वात्, दैवतवत्पर्युपास्यत्वाच्च, तथा च पारमर्षम् - जे खलु तहाभूतस्स समणस्स वा माहणस्स वा अंतिए एगमवि आरियं धम्मियं सुवयणं