________________
४८
वर्गचूलिका सावयत्तणमवि लद्रूण सुयहीलणाए दुल्लहबोहिणो 'भविस्संति ।
ततः परं तृतीयभेदमिथ्याभावप्रतिपादनात् - आभिनिवेशिकाख्यमिथ्यात्वाङ्गीकारात्, नानाविधयोनिषु कर्मणा - सानुबन्धाशुभकर्मविपाकेन, तेषां परिवर्तनम् - पौन:पुन्येन भ्रमणम्, भविष्यति ।
अग्निदत्त ! एवं ये जीवाः श्रावकत्वमपि लब्ध्वा श्रुतहीलनया दुर्लभबोधयो भविष्यन्ति, ते मया तवाभिहिता इति गम्यते । न चात्र किमपि चित्रम्, द्वादशाङ्गीविराधनायास्त्रिकालेऽपि संसरणकारणतया सिद्धान्ते प्रसिद्धत्वात्, तथा च पारमार्षम् - इच्चेइअं दुवालसंगं गणिपिडगं तीए काले अणंता जीवा आणाए विराहित्ता चाउरंतं संसारकंतारं अणुपरियट्टिसु । इच्चेइअं दुवालसंगं गणिपिडगं पडुप्पन्नकाले परित्ता जीवा आणाए विराहित्ता चाउरंतं संसारकंतारं अणुपरियटुंति । इच्चेइअं दुवालसंगं गणिपिडगं अणागए काले अणंता जीवा आणाए विराहित्ता चाउरंतं संसारकंतारं अणुपरियट्टिस्संति - इति (नन्दीसूत्रे १५७) ।
१. ख.ग.छ-हवि० ।