________________
४७
वर्गोपनिषद्
अग्निदत्त ! ततोऽनन्तरं ते द्वाविंशतिवणिजो दुष्टा यावत् परिभवन्तः पञ्चदशवर्षाणि यावत् गृहिकृत्यं कृत्वा, अनानुपूर्व्या चतुरन्तनवनवतिवर्षपर्यायं प्राप्य, अत्रानानुपूर्व्यादिवक्तव्यता न सम्यगवबुध्यते, अक्रमेण चतुर्गतिसंसारभ्रमणं करिष्यन्तीति स्तबकपाठोऽपि न सङ्गतः प्रतिभाति, वणिग्भववक्तव्यतायाः पुरस्तात् पश्चाच्चोपलभ्यमानत्वेन प्रकृतत्वात्, तदत्र तत्त्वं बहुश्रुता विदन्तीति । षोडशरोगातकैः परिभूताः सन्तः, अत्र रोगाः - दाहज्वरादयः, आतङ्काः - सद्योघातिशूलादयः, रोगाश्चातङ्काश्च रोगातङ्काः यद्वा रोगाः - व्याधयः, ते चैत आतङ्काश्च-कृच्छ्रजीवितकारिणः - रोगातङ्काः- रोगरूपा आतङ्काः, आर्तध्यानोपगताः - वेदनादिगोचराशुभध्यानोपयुक्ताः, कालमासे - मरणावसरे कालं कृत्वा - मृत्वा, घर्मायां पृथ्व्याम् रत्नप्रभाक्षितौ प्रथमे नरके, प्रथमप्रतरे दशवर्षसहस्त्रस्थित्यां नैरयिकतया - नारकजीवत्वेन, उपपत्स्यन्ते - श्रुताशातनादिपापविपाकत उद्भविष्यन्ति । ___ तओ वरं तइयभेयमिच्छभावपडिवज्जणाओ णाणाविहजोणीसु कम्मणा तेसिं परियट्टणं हविस्सइ । एवं णं अग्गिदत्ता ! जे जीवा १. क.च-तेइयभे० ।