________________
२६ ]
लघुस्याद्वादरहस्ये
हेतुत्वस्य कल्प्यत्वात् तुल्यत्वोक्तेरनौचित्यात् । अव्याप्यवृत्तिरूपस्वीकारे नीलपीतवत्यग्निसंयोगानीलनाशात्तदवच्छेदेन रक्तं न स्यात् , रूपं प्रति रूपस्य प्रतिबन्धकत्वात् इत्यप्याहुः ।
अपरे तु-तत्र व्याप्यवृत्तिन्येव नीलपीतादीन्युत्पद्यन्ते, नीलादिकं प्रति नीलेतरादिप्रतिबन्धकत्वनीलाभावादिकारणत्वाऽकल्पनया लाघवात् । न च नीलकपालावच्छेदेन चक्षुःसंनिकर्षे पीतादेरूपलंभापत्तिः, पीतावयवाद्यवच्छिन्नचक्षुःमंनिकर्षस्य पीतादिग्राहकत्वकल्पनात् । यत्त्वेतत्कपालावच्छिन्नसंयोगादिप्रत्यक्षानुरोधेनैतत्कपालानवच्छिन्नवृत्तिकत्वे सति यत्तत्पीतान्यं तद्भिन्नं यदेतद्घटसमवेतं तस्यैतत्कपालविषयकसाक्षात्कार प्रत्येतत्कपालावच्छेदेनैतन्घटचक्षुःसंयोगस्य हेतुत्वात् न नीलाद्यवयवावच्छेदेन चक्षुःसंनिकर्षे पीतादिचाक्षुषमिति-तन्न, तथापि नीलावयवावच्छेदेन चक्षुःसंनिकर्षे एतत्कपालाविषयकतत्साक्षात्कारापत्तेदुवारत्वात् । “मुखे पुच्छे च पांडुर" इत्यादौ तु मुखवृत्तिपांडुरत्वमेव परंपग्यावयविनि प्रतीयत इत्याहुः ।
'तथाऽपि ये नीलपीतरक्ताद्यारन्धघटादौ नीलपीतरक्तेभ्य एव नीलपीतोभयज-रक्तपीतोभयजतत्रितयजचित्राणां चोत्पत्तिः, सर्वेषां सामग्रीसत्त्वात् , अनुभवसिद्धत्वाच्च, तत्र त्रितयजचित्रं व्याप्यवृत्ति, अन्यत्त्वव्याप्यवृत्ति, एकमेव वा तद्रूपमस्तु जातेरव्याप्यवृत्तित्वोपगमेन तु किंचिदवच्छेदेन नीलत्वपीतत्वादिकं विलक्षणचित्रत्वादिकं च व्यवहियते-इति येऽनुमन्यते तदभिभिप्रायेणेदम् । स्वयं हि ये एकत्र घटे व्याप्यवृत्त्येकं चित्रमव्याप्यत्तिचित्रांतरं चाभ्युपगच्छन्ति तेषामनेकान्तवादाऽनादरो न ज्यायानिति भावः इति सर्वमवदातम् ।।९।। अथाऽनेकान्तवादप्रामाणिकता कापिलमतेनाऽपि संवादयति “इच्छन्न" ति
इच्छन् प्रधानं सत्वाविरुद्धैगुम्फितं गुणैः ।
सांख्यः संख्यावतां मुख्यो नानेकान्तं प्रतिक्षिपेत् ॥१०॥ सत्त्वाद्यैः सत्व-रजस्तमोभिः, 'सत्त्वं लघुप्रकाशकमित्यादिकारिकालक्षितैः, विरुद्धैः गुम्फितं तत्साम्यावस्थात्वमापन्नं प्रधानमङ्गीकुर्वन् सांख्यो यदि अनेकान्तवादं निराकुर्यात् तर्हि कथं न स्वाधिरूढशाखाच्छेदनकौशलमासादयेदिति भावः ।।१०।।
१ एतच्छलोकव्याख्यांगम्भे विद्यमानं 'यद्यपी' ति पदमत्रानुसंधेयम् ।
२-'चित्रमेकमित्यादिश्लोकेनाऽनेकान्तसमर्थनम् । ३-"सत्त्वं लघु प्रकाशकमिष्टमुरष्टंभक चलं च रजः । गुरुवरणकमेव तमः, प्रदीपवञ्चार्थतो वृत्तिः ॥१३॥ [सांख्यकारिका] किञ्चिद्व्याख्या-कार्योगमने हेतुः धर्मो लाघवम, गौरवं प्रतिद्वन्दूि, यथाग्नेः ऊर्ध्वं ज्वलनम् , कस्यचित्तिर्यग्गमनेऽपि हेतुर्यथा बायोः । एवं करणानां वृत्तिपटुत्व हेतुर्लाघवम् । सत्त्वतमसी स्वयमक्रिये रजसोपष्टभ्येने स्वकार्ये उत्साह प्रयत्न कार्येते। वरणक=आवरकम् , आच्छाद कमिति यावत् । प्रदीपवच्चेति-यथावर्तितैले अनिलविरोधिनी, भथ मिलिते सहानलेन रूपप्रकाशलक्षणं कार्य कुरुत एवं सत्त्वादिन्यपि मिथो विरुद्धान्यपि अनुवय॑न्तिस्वकार्य करिष्यन्ति च । अर्थतः पुरुषार्थतः ॥ इति ।