________________
२४ ]
लघुस्याद्वाद रहस्ये
द्वितयारन्धचित्रापत्तिः, गौरवं तु प्रामाणिकत्वादिष्टमित्यन्ये । अत्र नौलतरनीलतमोभयत्वादिना तदुभयजन्यचित्रं प्रत्यपि हेतुता वाच्या, तत्प्रति च नीलतरनीलतमान्यतरेतररूपत्वादिना प्रतिबन्धकता तेन न नीलपीतोभयारब्धचित्रवति तदापत्तिरिति बोध्यम् ।
केचित्तु नानारूपवदवयवारब्धो घटो नीरूप एव । न चैवमप्रत्यक्षः स्यात्, द्रव्यतत्समवेतचाक्षुषसाधारण्येन चाक्षुषत्वावच्छिन्नं प्रत्येव स्वाश्रयसमवेतवृत्तित्वसम्बन्धेन रूपस्य . कारणत्वात् । अत एव त्रुटि चाक्षुषानुरोधेन परमाणु द्वयणुकयोरपि सिद्धिरित्याहुः । तच्चित्यम् - चित्रकपालिकास्थले तदसम्भवात् । किंच घटाकाशसंयोगाद्य चाक्षुषत्वानुरोधाय चाक्षुषत्वावच्छिन्नं प्रति स्वाश्रयसमवेतत्व संबंधेन रूपाभावस्य प्रतिबन्धकत्वकल्पन मेवोचितम् । स्वावच्छिन्नगुणाधिकरण तावत्प्रत्यक्षसंबंधेन पर्याप्तिमतः स्वावच्छिन्नाधेयतावद्गुणप्रत्यक्षत्वसंबंधेन पर्याप्तिमत्त्वावच्छिन्नं प्रति हेतुत्वकल्पने ऽप्यव्यासज्यवृत्याकाशादिगुणा चाक्षुषत्वोपपत्तये रूपवत्त्वस्य प्रत्यासत्तिघटकत्वे गौरवात् न च चाक्षुषाभावस्यैवास्तु चाक्षुषं प्रति प्रतिबन्धकत्वं आश्रयाचाक्षुषत्वेनैव द्व्यणुकाद्यचाक्षुषत्वोपपत्तौ महत्वस्यापि प्रत्यासत्यघटकत्वे लाघवादिति वाच्यम् - त्रुटि चाक्षुषानुरोधेन द्रव्यान्यत्वस्य प्रतिबध्यतावच्छेदककोटौ दाने गौरवात् । लौकिकविषयतावच्छिन्नचाक्षुषाभावापेक्षया समवाय संबंधावच्छिन्नरूपाभावस्य लघुत्वाच । अथैवं रूपाद्युत्पत्तिक्षणेऽपि रूपादेः प्रत्यक्षं कुतो नेति चेत् ? विषयाऽभावादिति गृहाण | रूपनाशक्षणे संयोगादिचाक्षुषं तु न, शपथमात्रश्रद्धेयत्वात् । इत्थं च तादृशघटस्य नीरूपत्वे तादृशघटवृत्तिसंयोगादिचाक्षुषं न स्यात् । एतेन उद्भूतैकत्वस्यायोग्यव्यावृत्तधर्मविशेषस्य वा द्रव्यचाभूषकारणत्वेन रूपं विनाऽपि घटादिचाक्षुषत्वोपपादनेन तादृशघटस्य नीरूपत्वसमर्थनं - प्रत्याख्यातम् । त्रुटावेव विश्रामे वायोः स्पार्शनत्वे च स्पार्शनं प्रतिस्पार्शनाभावस्य प्रतिबन्धकत्वं न तु स्पर्शाभावस्य त्रुटिसमवेतास्पार्शनानुरोधेन संयुक्तसमवायप्रत्यासत्तिमध्ये प्रकृष्टमहत्त्वस्य घटकत्वे गौरवात् । एवं च तादृशघटस्य निःस्पर्शत्वे तु न क्षतिरिति ध्येयम् ।
एकदेशिनस्तु तत्र अव्याप्यवृत्तीनि नानारूपाण्येव । न चावच्छेदकतया नीलाद्यभावादिसामग्रीचलात्पीताद्यवयवाच्छेदेन नीलाद्यापत्तिरवच्छेदकतया रूपत्वाद्यवच्छिन्नाभावस्य तथात्वेSपि नीलपीतावयवारब्धे पीतावयवावच्छेदेन पाके रक्तोत्पत्तिकाले सा, कार्यसहभावेन तदभावात् । अवच्छेदकतया नीलादीकं प्रति समवायेन नीलादेः कारणताभ्युपगमाद्वा । नन्वेवं घटादावयवच्छेदकतया नीलाद्युपत्तिः स्यात्, सामग्रीसस्वादिति चेत्, १ अत्र केचित् अवच्छेदकतया नीलादिकं प्रति समवायेनाऽवयवनीलत्वादिना द्रव्यविशिष्ठ नीलत्वादिना वा हेतुत्वमित्याहुः । अन्ये तु - अवच्छेदकतया तद्वारणाय स्वाश्रयवृत्तिद्रव्यसमवाय संबंधेनाऽवश्यकरूप्यहेतुताकस्य नीलाद्य