________________
श्लो० ४]
अर्थक्रियाकारित्वव्याख्या
११५
रूपयोर्वा तत्पक्षेऽसम्भवः । एवमुत्तरार्द्धे दोषोद्भावनमपि विभावनीयं, क्षणिकस्य क्रमिक क्रियाका - रित्वविरोधादिति ॥ ३॥
[ एकान्तनित्यवादे अर्थक्रियाकारित्वानुपपत्तिः ]
क्रमाक्रमाभ्यामिति - अप्रच्युतानुत्पन्नस्थिरैकरूपाणां हि क्रमेण युगपद्वाऽर्थक्रियाकारित्वं न घटामटाट्यते । तथाहि -‘अर्थस्य ' = घटादेः स्वस्य वा, 'क्रिया' = ज्ञानादिरूपा, 'तत्कारित्वं' = तज्जनकत्वं सर्वथा नित्यानामात्मादीनां देशक्रमेण कालक्रमेण वा न सम्भवति, यत्किञ्चिददेशकालावच्छेदेनैव सकलकार्यकरणसामर्थ्यात् । अन्यथा देशकालभेदेन स्वभावभेदादनित्यताप्रसंगात् ।
अथाssत्मादीनामर्थक्रियाकारित्वेऽपि यत्र कुत्रचिद्यदाकदाचित्सर्वार्थक्रियाकारित्वे आपादकाभाव इति चेत् न, देशकालादीनामप्यात्मादेखि तिरस्कृत विशेषतया कार्यभेदाय स्वभावभेदस्याऽवश्याश्रयणीयत्वे एकान्तनित्यतापक्षस्य विनशीर्णत्वात्, अन्यथा पुनरुक्तापत्तेर्दुर्निवा - रत्वात् । अथ स्वस्य भावः स्वभावः, स चाऽऽत्मत्वादिरूपः कार्यभेदाय न भिद्यते किंत्वनुगत एव जन्यज्ञानत्वाद्यवच्छिन्न कार्यतानिरूपित कारणतावच्छेदको घटज्ञानादिरूपविशेषकार्यं तु घटेद्विन्य सन्निकर्षादिविशेष कारण संपातादुपजायते । अत एवोभयसामग्री समावेशाद घटपटोभयसमूहालम्बनमप्युदेतीति चेत् ? न, स्त्रस्याऽऽत्मनो भावः कार्यजननपरिणतिः, सा च घटोपयोगरूपा घटज्ञानादिभेदाय भिद्यत एव, सुषुप्तिकाले ज्ञानाऽनुत्पत्तिनिर्वाहायोपयोग रूपव्यापारसाचिव्येनैव
जीवस्य ज्ञानजनकत्व स्वीकारात् ॥ अपूर्ण सम्पूर्णम्
सम्पादकीयम्
तदेवं पृथक् पृथक्ज्ञानकोशेभ्यो लघु-मध्यमस्याद्वादरहस्ययोः उपाध्यायस्वकीयहस्ताक्षरादर्शद्वयं बृहतश्च अन्यदीयहस्ताक्षरादर्श कुत्रचिदुपाध्यायस्वहस्ताक्षरैः पूरितमेवमादर्शत्रयमुपलभ्य पठनमुद्रणानुकुल हस्तादर्श सज्जीकृत्य सम्पाद्य मुद्रापितोऽयं विक्रमीयाष्टादशशतकालंकारजिनशासनोद्योतक-न्यायविशारद - न्यायाचार्य - महोपाध्यायश्रीमद्यशोविजयगणिविरचितः बृहट्टीकात्रयात्मकः स्याद्वादरहस्य शुभनामधेयप्रकरणग्रन्थः विक्रमीयविंशतितमशतकज्योति-र्धर-युगप्रधानदेशीय-शतत्रयाधिकमुनिवृन्द सार्थवाह - त्यागवैराग्यसंयमादिगुणगणरत्नाकरनिस्पृहशिरोमणि - व्याकरण - न्याय आगमादिसर्वशास्त्रनिपुणमतिः - बन्धविधानादिलक्षद्वयश्लोकपरिमाणप्र-मितनूतनकर्मसाहित्यग्रन्थरचनासूत्रधार श्रीमद्विजय प्रेम सूरिश्वरपट्टप्रद्योतक - प्रशमरसपूर्णोपदेशघ --- टारवप्रबोधितानेक शिष्यगणपरिवृत[त - न्यायविशारद - शास्त्रमर्मज्ञ - शताधिक श्रेणिकवर्धमानतपश्चर्यासफलीकृतमनुष्यजन्म-उग्रचारित्रचर्यापालनोद्यत श्रीमद्विजयभुवनभानुसूरीश्वर चरण किंकरेण भुवनभानुसूरिशिष्य रत्न समाधिसाधनोद्यतशान्तमूर्त्तिमुनिपुङ्गव श्रीमद्धर्म घोषविजयशिष्यरत्नगीतार्थ- आगमाद्यनेकशास्त्र रहस्यविद्-मुनिप्रवरश्रीमद्जयघोष विजयगणिव रशिष्याणुना जयसुन्दरेणेति । भूत् सर्वजगतः
१ - इतः परं मूलादर्शस्य पञ्चविंशतितमपत्र पञ्चमपक्तेरारभ्य रिक्तमेव ॥
लघुमध्यम