________________
११४
बृहत्स्याद्वादरहस्ये
नीतप्रकृतिविशेषाऽबाधाकालपरिपाकादेव फलोदयात् । अत एव फलसन्तानस्थितिः कर्मणः स्थितिबन्धं नाऽतिवर्तते । परिणामाऽदृष्टजनितेन च पौगलिकाऽदृष्टेनैवात्मनोनुग्रहोपघातौ सम्भवतः, पुद्गलस्यैवान्यत्रानुग्रहोपघातकारित्वदर्शनात् । किश्चात्मनः शुभाशुभपरिणामौ परसंसर्गजन्यौ, शुद्धपरिणामं तिरस्कृत्याऽऽविर्भावात् जपातापिच्छकुसुमसंक्रमजनितस्फटिकपरिणामवदित्यनुमानादपि पोद्गलि काऽदृष्टसिद्धिः । न च 'परिणामाऽदृष्टात्पौद्गलिकादृष्टं, पोद्गलिकाऽदृष्टाच्च परिणामादृष्टमि'त्यन्योन्याश्रय इति वाच्यं, बीजांकुरस्थल इवाऽनाद्यन्योन्याश्रयस्याऽत्रादोषत्वात् ।
अथ मूर्तयोः परस्परसंक्रमसम्भवात् स्फटिकादौ जपातापिच्छसंसर्गवशात् श्यामरक्तपरिणामौ समगंसातां, आत्मनस्त्वमूर्तत्वात्पुद्गलसंसर्गेणाऽपि कथं विभावपरिणामः सम्भवत्विति चेत् । अवधेहि-ज्ञेयनिमित्तकोपयोगाधिरूढज्ञेयाऽऽकारसम्बन्धस्येव कर्मनिमित्तकोपयोगाधिरूढरागद्वेषभावस्याऽऽत्मनि निरपायत्वात् । वस्तुतो रागपरिणामो यथा क्रमुकफलपर्णचूर्णसंयोगजन्यस्तथा रागद्वेषपरिणामोऽपि जीवकर्मोभयसंयोगजन्य इति प्रतिपत्तव्यम्, तेन जपातापिच्छगते एव रक्तत्वश्यामत्वे स्फटिकादावारोप्येते तत्सन्निधेरेव तत्र दोषत्वात् , न पुनरतिरिक्ततदारम्भो युक्त इत्युक्तावपि न क्षतिः ।
न चैवं निश्चयतस्तदभावोक्तिरयुक्ता स्यात्, त्रिकालाऽनुगतग्राहिणा तद्ग्रहपराङ्मुखेन तेन तदुक्तेर्युक्तत्वात् । अत एव शुद्धपरिणामस्य न तेन प्रतिक्षेपः, निरुपाधिकाऽऽत्मपरिणामरूपस्य तस्य ज्ञानदर्शनवत्सार्वदिकत्वात् । न चैवं सिद्धानामापि चारित्रप्रसंगो, निश्चयतोऽभिमतत्वात् । यथा हि ज्ञानदर्शनावरणदर्शनमोहक्षयात्तेषां शुद्धज्ञानदर्शनसम्यग्दर्शनानि प्रादुर्बभूवुस्तथा चारित्रमोहक्षयाच्चारित्रमप्युत्पद्यमानं कस्य पाणिना पिधेयम् । तदिदमभिप्रेत्य कंठत एवोक्तं गुणस्थानक्रमारोहे-"अनन्ते शुद्धसम्यक्त्वचारित्रे मोहनिग्रहादि"ति । नैश्चयिकचारित्रमपि शैलेशीचरमसमय एवोत्पदिष्णु, चौरसंसर्गिसमयोगादीनां तदानीमेवाऽपगमात् । तदुक्तं-धर्मसंग्रहण्यां-"'सो उभयखयहेऊ सेलेसी चरमसमयभावी जो । सेसो पुण णिच्छयओ तस्सेव पसाहगो भणिओ" ॥२६॥त्ति।
न च धर्माऽधर्मोभयक्षयकारी सिद्धधारणालम्भूष्णुस्तदानीं कश्चिदन्य एव धर्म इति वक्तुं युक्तं, ज्ञान-दर्शन-चारित्राणामेव मोक्षमार्गत्वोक्तेः । अथ पञ्चस्वनन्तर्भावात्कतरत्तेषां चारित्रमस्त्विति चेत् ? न, एतदनुयोगस्य 'दशस्वऽनन्तर्भावाद्धर्मोऽपि तेषां कतरः ?' इति पर्यनुयोगतुल्ययोगक्षेमत्वात् । 'सिद्धे णो चरित्ती णो अचरित्ती'त्यभिधानं कथं संगतिमङ्गतीति चेत् ? चारित्रित्वाऽचारित्रित्व-व्यवहारप्रयोजकव्यावहारिकचारित्राऽचारित्रोभयाऽभावान्नैश्चयिकसंज्ञाशालिनि नोसंज्ञिनोअसंज्ञित्वाऽभिधानवद्यवहारनयाऽभिप्रायेण चेदम् । निश्चयतस्तु परमचारित्रवत्पदाभिधेयः सिद्धस्तत्रैव सर्वगुणपारम्यविश्रान्तेरित्यधिकमस्मत्कृताऽध्यात्ममतपरीक्षायामध्यवसेयम् ।
तथा च स्वभावभेदेनैव तादृशधर्माधर्मयोर्जननादेकान्तनित्यतापक्षो मूलक्षत एव । अत एव बन्धमोझयोरपि कर्माऽऽदान-सकलकर्मविप्रमोक्षलक्षणयोमिथ्याज्ञानवासनादुःखध्वंस-- १-स उभयक्षयहेतुः शैलेशीचरमसमयभावी यः । शेषः पुनः निश्चयतस्तस्यैव प्रसाधकः भणितः ॥