________________
चन्द्रराजचरित्रम् पश्चात् सुदिवसे राजा, पर्यणैषीत् कुमारिकाम् । नर्त गणिका तत्र, जहषुर्नागरा जनाः ॥१०४ ।। न केषां हि प्रमोदाया-ऽजायताऽसौ महोत्सवः । देवीं वीरमतीं त्यक्त्वा, चन्द्रावत्याः समागमे ॥१०५ ।। एवं कन्यां विवाह्याऽसौ, पद्मशेखरभूपतिः । जगाम नगरं स्वीयं, प्रभूतानन्दनिर्भरः ॥१०६ ।। राजा वैषयिकं सौख्यं, तया सह समन्वभूत् । आतन्वानोऽनेकविधां, क्रीडां कामकलोद्भवाम् ॥१०७ ॥ कदाचित् स जले क्रीडां, कदाचित् पुष्पितद्रुमे । आरामे दोलया वाऽपि, चकाराऽमरवन्नृपः ॥१०८ ।। राज्ञी वीरमती चित्ते, सर्वदा दुःखसञ्चयम् । बभ्रे ऽनपत्यताहेतुं, सपत्नीसत्त्वतोऽपरम् ।।१०९ ।। चन्द्रावती "सुचरितै-विभ्रमैश्च निजं पतिम् । वशीचकार चतुरा, किं न कुर्यात् पतिव्रता ? ॥११० ।। एकदा शयने सा हि, चन्द्रं स्वप्ने व्यलोकत । येन गर्भ बभाराशु, लतेव प्रसवं शुभम् ॥१११ ।। रत्नगर्भाऽवनी किं वा ?, सूर्यगर्भा दिशा किमु ? । द्यौरियं चन्द्रगर्भति, तां लोको व्यचिकित्सत ॥११२ ।। दोहदो यो बभूवाऽस्या, राजा तत्क्षणमेव तम् । पूरयामास किमु नो, कुरुतेऽभ्युदये जनः ? ॥११३ ॥ १. इतोऽग्रे- 'दोहदो यो बभूवाऽस्या, राजा तत्क्षणमेव तम् । पूरयामास किमु नो, कुरुतेऽभ्युदये जनः ।। इति निष्कासितः श्लोको दृश्यते ।। २. 'चन्द्र' इति पाठा० ।। ३. 'बभ्रे सुतालाभभवं' इति पाठा० ।। ४. 'स्व-' इति पाठा० ।। ५. 'प्रसवान्विता' इति पाठा० ।।।