________________
२९४
चन्द्रराजचरित्रम्
अथ ग्रन्थकृत्प्रशस्तिः
श्रीमहावीरशिष्योऽभूच्छ्रीसुधर्माभिधो गणी । यद्वाणीसुरधुन्यम्बु- धारा
श्रुतिधरातले ॥ १ ॥
।।
मधुमज्जितमाध्वीक - माधुरीं मन्दयन्त्यलम् । अविश्रान्तं नृणामन्तः, पुनात्यद्याऽपि भासुरा ॥ २ ॥ युग्मम्
तदीयपट्टहट्टाली - क्रीतसंयमवैभवः
पञ्चव्रती शान्ततन्द्रो, जगच्चन्द्रो बभूविवान् ॥ ३ ॥
तपोगच्छं महास्वच्छं, चन्द्रो जगदिवाकरोत् । तत एव स सर्वत्र, तपोगच्छोऽतिपप्रथे ॥ ४ ॥ तत्पट्ट रत्नाकरतो, हीर: सूरिरुदीयिवान् । अकब्बरमनोध्वान्त-मन्तमत्यन्तमानयत् 114 11 सेन- देवौ पुष्पवन्तौ तत्पट्टोदयशैलतः । तपोगच्छाम्बरेऽभाता - मुदितौ सूरिनायकौ ॥६॥ तत्पट्टमण्डनो वृद्धि-चन्द्रो विद्यानुरागवान् । पादचारेण धरणिं, पपाव भविमोदकृत् ॥ ७ ॥
-
तत्पट्टचक्रनेमिः श्री नेमिः सूरिवरोऽभवत् । कदम्बप्रमुखानेक तीर्थोद्धारपरायणः
।। ८ ।।
ततस्तृतीयस्तत्पट्ट - धरः शान्ताकृतिः परः । समयज्ञोऽस्ति विज्ञान - सूरिशौण्डो गुणाकरः ॥९॥
तदीयापारकारुण्य-लेशं सम्प्राप्य तोषभाक् । तत्पट्टसरसीजात- भानुः कस्तूरसूरिराट् ॥ १० ॥