________________
२८६
तदीयजीवो गगनादिवल्लभे,
पुरे च वैताढ्यगिरावजायत ।
श्रीवायुवेगस्य नृपस्य योषितः,
श्रीवेगवत्याः ललनात्मना पुनः ।। १९० ।
मातापितृभ्यां परिपालिता द्रुतं,
युवत्वमापाऽखिललोकरञ्जनम् ।
स्त्र्यभूत् ततो 'वीरमती 'ति शब्दिता' ।। ९९९ ।।
श्रीवीरसेनस्य महीपतेरियं,
यदेकमाधात् परमं विगर्हितं,
शुकीदलोत्पाटनरूपकर्म तत् ।
मते जिनोक्ते कुशलानुतप्य सा ।। १९२ ।।
अचिक्षिपद् रूपमती दयावती,
चन्द्रराजचरित्रम्
अपास्य नारीजनवेदकर्म सा,
बबन्ध पुंवेदमतो निजायुषः ।
सुतत्वमाभानगरीमहीपतेः ।। ९९३ ।।
क्षये, मृतिं प्राप्य गता प्रियोदरे,
स वीरसेनस्य सुतः प्रसिद्धिभाक्,
त्वमेव चन्द्रो नृपतिर्महीपते !,
चन्द्रावतीगर्भसमुद्रसम्भवः ।
विराजसे लोचनपद्धतौ मम ।। १९४ ।।
शुकस्य पीडाशमनोपचारकृत्,
तदन्तकाले करुणाकरो यकः ।
१. ' श्रीवेगवत्या उदरोद्भवा हि सा, श्रीवायुवेगस्य नृपस्य योषितः ।' इति पाठा० ।। २. ‘नामभाक् ।।' इति पाठा० ।