________________
सर्गः - ७
२८५
शुकाय, मन्त्री च निशम्य तद्वचो,
व्यमार्गयत् तादृशमेव कीरकम् ।। १८५ ॥ अनाप्य यत्नादपि तादृशं शुकं',
यथाप्तमेव स्वसुताकृते ददौ । अवाप्य तं मन्त्रिसुता नृपात्मजा
मदर्शयत् ते कलहं गते ततः ।। १८६ ॥ 'वदत्ययं मयंगिरा शुको मम,
न ते शुको वक्ति' जगाद भूपजा । निशम्य सोचे 'परिवक्ति मे शुक
स्तथा न चेत् त्वं कुरु तत्परीक्षणम् ॥ १८७ ॥ परीक्षणे भूपसुताशुकोऽवद
न मन्त्रिकन्याशुक इत्यतस्तदा । अमात्यकन्याऽतिरुषाकुला सती,
समुत्पपाटाऽस्य स्वशुकस्य पक्षती ।। १८८ ॥ शुकोऽथ मन्त्रीशसुतादितच्छदोऽ
नुभूय पीडां प्रहरान् स षोडश । विमुक्तवान् व्यात्तमुखोऽन्ततो निजा
नसूनुदस्यंश्चरणौ क्रुशन् भृशम् ।। १८९ ।।
१. 'प्रणिशम्य' इति पाठा० ।। २. 'अलभ्य ताक् शुकमाशुचत् तदा' इति पाठा० ।। ३. 'ततः ।' इति पाठा० ।। ४. 'असावपि प्राप (असौ समासाद्यपाठा०) शुकं च मन्त्रिसू-मिथो विवादं कुरुतः स्म ते ततः ।।' इति पाठा० ।। ५. '-स्तथेति कार्यं हि परीक्षणं तयोः ।।' इति पाठा० ।। ६. 'इत्यतो बहु ।' इति पाठा० ।। ७. '-टाऽस्य च पक्षसंहतिम् ।।' इति पाठा० ।। ८. 'शुकोऽप्यसौ रूपमतीदितच्छदोऽनुभूय पीडां प्रहरान् हिं षोडश । विपद्य वैताढ्यगिरावजायत, पुरे तनूजा गगनादिवल्लभे ।।' इति पाठा० ।।