________________
एतादृशैव कन्याया-स्तस्याः स्यात् भवितव्यता । तेनैवेदृक् प्रसङ्गोऽद्योपस्थितोऽभूदचिन्तितः ॥३७६॥ अतोऽधुनैतद्वचन-स्वीक्रियैव गरीयसी ।। पश्चादहं करिष्यामि, समये हि यथोचितम् ॥३७७॥ संप्राप्ते सङ्कटे धीमान्, कुर्यादापतितं तथा । यथा सङ्कटमुत्तीर्य, भवेनिष्कण्टकं सुखी ॥३७८॥ एवं विमृश्य कृपण-श्रेष्ठिनं प्रत्यभाषत । परिणीय प्रदास्यामि, कन्यां ते तनुजन्मने ॥३७९॥ त्वयाऽपि वचनं स्वीयं, सम्यक् पाल्यं महाशय !। एवं तद्वचनं श्रुत्वा, कृपणेभ्योऽतुषत्तराम् ॥३८०॥ गृहे वैवाहिकमहं, प्रारेभे स मुदान्वितः । नरेन्द्राग्रमुपेत्याऽसा-वुपायनमदात्ततः ॥३८१॥ निजपुत्रविवाहार्थ-मलङ्कारयुतं गजम् । तुरङ्गमरथादींश्च, विवाहोपस्करान् नृपात् ॥३८२॥ गृहीत्वा सदनं स्वीय-मायासीत् कृपणेभ्यराट् । लग्नयात्रादिने हस्ति-रले मौक्तिकनिःक्षरम् ॥३८३॥ तं संस्थाप्य सुतं स्वीयं, कुष्ठिनं च पटैर्वृतम् । रथमारोप्य नगर-मध्येन निःससार सः ॥३८४॥ (युग्मम्) निरीक्ष्य निखिलाः पौराः, मौक्तिकक्षारकं वरम् । वरवारणमासीनं, शशंसुः श्रेष्ठिनं तथा ॥३८५॥ अहो ! मनोहराङ्गोऽयं, वरः स्मर इवाऽङ्गवान् । श्रेष्ठ्यपि बहुधन्योऽस्ति, यस्येदृग् रूपवान् सुतः ॥३८६॥ एवं स्वसुतभूतस्य, तस्य स्वस्य च श्लाघया । प्रसन्नः कृपणः प्राप्तः, शीलवत्याः पुरं परम् ॥३८७॥
विविध हैम रचना समुच्चय
66