________________
कुञ्जरेन्द्रोऽभ्यषिञ्चत्तं, स्वयं छत्रमदीधरत् । चामरे स्वयमेवैते, वीजयामासतुस्तराम् ॥३५२॥ गृहीत्वा स्वकरेणाऽमुं, स्वपृष्ठोपर्यतितिष्ठिपत् । ततो मन्त्रिमुखाः पौर-जना नवनरेश्वरम् ॥३५३॥ अमन्दानन्दसन्दोह-सङ्कुलास्तं ववन्दिरे । प्रावेशयंश्च नगरं, महामहपुरस्सरम् ॥३५४॥ राज्याभिषेकसामग्या-ऽभ्यषिञ्चन् राजसंसदि । एवं राज्यप्रदौषध्याः, प्रभावेण स तत्पुरे ॥३५५॥ महाराजोऽभवद् दैवे-ऽनुकूले स्यात् शुभोदयः । ततः स्वं बन्धुमन्वेष्टुं, चारान् सर्वत्र प्राहिणोत् ॥३५६॥ जिनदत्तः नृपः किन्तु, तद् वृत्तं नैव लब्धवान् । सदैव बन्धुविरहा-नलसन्तप्तमानसः ॥३५७॥ निनाय स दिनान्येवं, राज्यमाप्तोऽपि दुःखभाक् । सम्पद्यपि न सौख्यं स्यात्, प्रतिकूलेषु कर्मसु ॥३५८॥ इतश्च कृपणश्रेष्ठि-गेहे विविधताडनम् । सहमानोऽतिकष्टेनाऽनयद्वारान् कथञ्चन ॥३५९॥ श्रेष्ठिनस्तस्य कुष्ठयेको, जन्मतो रोग्यभूत् सुतः । लोके प्राख्यापयन्मेऽस्ति, पुत्रोऽतीव मनोहरः ॥३६०॥ तस्योपरि न कस्याऽपि, दृष्टिदोषो लगेदतः । स्थापितोऽस्ति मया बालः स मे भूमिगृहान्तरे ॥३६१॥ इत्यसत्येन वचसा, सर्वे तेन प्रतारिताः । तस्य रूपकथां श्रुत्वा, सर्वे मुमुदिरे जनाः ॥३६२॥ अहो पुण्यमहोभाग्यं, फलं लब्धं नृजन्मनः । इति शशंसिरे ते तं, श्रेष्ठिनं चाऽपि नन्दनम् ॥३६३॥
विविध हैम रचना समुच्चय