________________
१२. शासनसम्राड्गुणस्तुतिषोडशिका
(आर्यावृत्तम्) जिनशासनसाम्राज्यं, सम्राडिव यः शशास नैपुण्यात् । तीर्थोद्धारैकरतो, जयति स विजयादिनेमिगुरुः ॥१॥
नेमिर्जयतादूर्व्या, कदम्बमुखनैकतीर्थसंस्कर्ता ।
आबालब्रह्मधरो, नरपतिनतपादपद्मयुगः ॥२॥ श्रीवृद्धिचन्द्रगुरुवर - पादाम्बुजसेवनाप्तसद्बोधः । अध्यैष्ट तत्कृपातः, कालेऽल्पे बहूनि शास्त्राणि ॥३॥
शब्द-न्यायादिशास्त्र - वैदुष्यभृतैर्यदीयशिष्यगणैः ।
रचितान् विविधान् ग्रन्थान्, दृष्ट्वा कः प्रीणयन्नैव ॥४॥ शिष्य-प्रशिष्यवर्गः, स्वाध्याय-तपसि निरन्तरोद्युत्कैः । ग्रह-तारागणमध्ये, भाति स्म चन्द्र इवाऽनन्यः ॥५॥
सकृदपि यद्व्याख्यानं, श्रुत्वा खलु सिंहगर्जनातुल्यम् ।
अश्मसदृशहृदया अपि, न हि बोधमवाप्नुयुः के के ? ॥६॥ श्रीकापरडातीर्थं, राणकपुर-शेरिसादितीर्थं च । यस्योपदेशादजनि, जीर्णोद्धारेण नव्यतरम् ॥७॥
श्रीमन्माणेकस्य, मनसुखतनयस्य तीर्थसिद्धाद्रेः ।
यन्निश्रायां जातो, यात्रासङ्घः प्रशस्यतरः ॥८॥ शासनसम्रागुणस्तुतिषोडशिका
27