________________
१०. श्रीश्रमणस्तुतिषोडशिका -
(वसन्ततिलकावृत्तम् ) गीर्वाणकोटिमहितक्रमणा जयन्तु, वप्रे मणीकनकरूप्यमये विशाले । संराजिनः प्रवरधर्ममुपादिशंस्ते, तीर्थेश्वराः श्रवणसङ्घप्रवर्तका ये ॥१॥
श्रीतीर्थराजपदपङ्कजसेवनेन, सद्वीजबुद्धिकलितास्त्रिपदीमवाप्य । विश्वप्रबोधकुशला द्वयधिकां दशाङ्गी
जग्रन्थुरुत्तमगुणा गणिनो विभान्तु ॥२॥ माली द्रुमाद् बुधवरः कुसुमानि चित्राण्यादाय गुम्फति यथा वरपुष्पमालाम् । प्राप्याऽदृभत् प्रवचनं जिनतोऽभिरामं, वर्यां तथा गणधरः शुचिशास्त्रमालाम् ॥३॥
श्रीमन्मुनिप्रभवमुख्यतमाः प्रपूज्याः सज्ज्ञानिनो जगति पूर्वविदो जयन्तु । यैरागमाब्धिमतिसूक्ष्मधिया विगाह्य,
लोकाय तत्त्वममृतं परमं वितीर्णम् ॥४॥ श्रीआर्यरक्षितगुरुप्रमुखा जयन्तु, सिद्धादिसेनमुनयो महिमाभिरामाः । तिग्मांशुवत् प्रसृमरं भुवि यैर्निरस्तमज्ञानसन्तमसमाशु जिनेन्द्रवाग्भिः ॥५॥
विविध हैम रचना समुच्चय