________________
अन्तलब्धिनिधान८. श्री गौतमस्वामिगुणाष्टकम्
- आचार्यविजयहेमचन्द्रसूरिः
(हरिणीवृत्तम्) जगति विदिता ये ये भावा यथेप्सितदायिनः, सुरतरुमुखास्ते सर्वे यत्तुलां न च बिभ्रति । बुधसमुदया भक्त्या नित्यं यङ्घिमुपासते, भुवि स जयतात् कामं पूज्यो गणीश्वरगौतमः ॥१॥
तव वरगुणाम्भोधेः पारं प्रयातुमभीप्सवः, सुरगुरुसमाः प्रोद्यत्प्रज्ञा अपीश ! न चेशते । तदपि मम हृत् त्वय्यालीनं गुणस्तवनं विना,
गणपवर ! ते स्थातुं नैव क्षणं ननु शक्नुते ॥२॥ चरमजिनपत्पद्मोपास्तिस्त्वयाऽविरतं कृता, सकलमुनयो भिक्षाकाले जपन्त्यभिधां तव । तव नमनतो विघ्नवातं प्रयाति लघु क्षयं, वितरतु मयि श्रीयोगीन्द्र ! प्रसद्य शुभाशिषः ॥३॥
तव करकजाद् दीक्षां प्राप्ताः समे शिवमैयरुस्तवकसदृशो नो कोऽप्यन्यो क्षितौ खलु दृश्यते । अथ नहि भयं किञ्चित्मानं भवाद् मम विद्यते, प्रथमगणभृत् ! यत्ते प्राप्तं पदाम्बुजसेवनम् ॥४॥
श्री गौतमस्वामिगुणाष्टकम्
19