SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ अन्तलब्धिनिधान८. श्री गौतमस्वामिगुणाष्टकम् - आचार्यविजयहेमचन्द्रसूरिः (हरिणीवृत्तम्) जगति विदिता ये ये भावा यथेप्सितदायिनः, सुरतरुमुखास्ते सर्वे यत्तुलां न च बिभ्रति । बुधसमुदया भक्त्या नित्यं यङ्घिमुपासते, भुवि स जयतात् कामं पूज्यो गणीश्वरगौतमः ॥१॥ तव वरगुणाम्भोधेः पारं प्रयातुमभीप्सवः, सुरगुरुसमाः प्रोद्यत्प्रज्ञा अपीश ! न चेशते । तदपि मम हृत् त्वय्यालीनं गुणस्तवनं विना, गणपवर ! ते स्थातुं नैव क्षणं ननु शक्नुते ॥२॥ चरमजिनपत्पद्मोपास्तिस्त्वयाऽविरतं कृता, सकलमुनयो भिक्षाकाले जपन्त्यभिधां तव । तव नमनतो विघ्नवातं प्रयाति लघु क्षयं, वितरतु मयि श्रीयोगीन्द्र ! प्रसद्य शुभाशिषः ॥३॥ तव करकजाद् दीक्षां प्राप्ताः समे शिवमैयरुस्तवकसदृशो नो कोऽप्यन्यो क्षितौ खलु दृश्यते । अथ नहि भयं किञ्चित्मानं भवाद् मम विद्यते, प्रथमगणभृत् ! यत्ते प्राप्तं पदाम्बुजसेवनम् ॥४॥ श्री गौतमस्वामिगुणाष्टकम् 19
SR No.022616
Book TitleVividh Haim Rachna Samucchay
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy