________________
२. ॥ श्री पञ्चपरमेष्ठिस्तुतिः ॥
सं. २०१५, कार्तिक, मुंबई
-मुनिश्री हेमचन्द्रविजय सुरकदम्बकैः कीर्तितक्रम,
विमलकेवलज्ञानभास्करम् । निरुपमश्रियं तत्त्वदेशिनं,
सततमाश्रये तीर्थनायकम् ॥१॥ सकल कर्मणां संक्षयं व्यघात्,
शुचितरं शुभध्यानमाश्रितः । शिवनिकेतनं सिद्धिकारकं,
परमनिर्वृतं सिद्धमर्चये ॥२॥ विजितवादिनं बोधदायकं,
भविकपङ्कजोद्बोधभास्करम् । चरणचर्चितं भूषितं गुणै
रभिनुवेऽन्वहं सूरिशेखरम् ॥३॥ अभिरतः श्रुताऽऽराधने गुणी,
मुनिकदम्बकोद्देशनाप्रदः । लधयिता जगत् तेजसाऽखिलं,
भुवि विराजतां वाचकोत्तमः ॥४॥ व्रतजपादिषु प्रोद्यतः सदा,
शमदमादिभी राजितो गुणैः । परमकारण मुक्तिशर्मणः,
किमु मुनिन किं श्लाघ्यतास्पदम् ॥५॥
308
विविध हैम रचना समुच्चय