________________
कुशाग्रमतिवैभवविभूषिताः सिद्धान्तमार्तण्डपूज्याचार्य श्रीमद्विजयनन्दनसूरीश्वरमहोदया अपि पादलिप्तपुरतो विहृत्य तत्प्रसङ्गे समुपस्थिताः । कदम्बगिरिसदृशे नीरवशान्तस्थले भूरिसङ्ख्याक - मुनिवराणां सहावस्थानमतीवाऽऽनन्ददायकं जातम् ।
1
अधस्तनप्रदेशे द्वासप्ततिदेवकुलिकासमेत श्रीमहावीरस्वामि- चैत्यम् मनोहरं विद्यते, बहिर्भागे उभयपार्श्वस्थितौ गजराजौ विलोक्य केचन सृत्यावेव मन्यन्ते । अग्रेतनीय प्राङ्गणे प्रत्यहं प्रात:काले प्रक्षिप्तान् धान्यकणान् चरितुं मयूरपारापतादयः विहगाः झटिति झटिति तत्रागच्छन्ति स्म, तन्मध्ये केचनविहङ्गमास्तु हस्त-मध्यादपि धान्यं चरन्ति स्म । कीदृग् मनोहरं तद् दृश्यम्, तद्दर्शनानेनैव चक्षुषी व्यरमेताम् । तत्र विराजमानानां पूज्याचार्यमहाराज श्रीविजयनन्द्रनसूरीश्वराणां सविधे तदा श्रीनन्दिसूत्रस्य वाचना प्रारब्धा ।
तस्य प्रारम्भकालीनः कतिचिद्भागः तर्कप्रचुरत्वेन सामान्यतया न सर्वेषां सुगमः । पूज्यसूरीश्वरैस्तु तद्विवेचनमेवंविशदरीत्या विहितं च्छ्रुत्वा वयं भृशमानन्दभरभाजनाः समभूम । अस्मज्जीवनस्य स किल सुवर्णकालः समासीत् । एतावति व्यतीतेऽपि सुदीर्घकालेऽद्यापि तत्संस्मरणं प्रत्यग्रमेव विद्यते ।
-
तदा वयं ते केचन मुनयः आस्म, ते सर्वेऽपि भिन्नभिन्नप्रकारेण शास्त्राध्ययनाध्यापनलेखनचिन्तनादौ एवं व्यापृताः आसन्, यन्न कस्यापि केनाऽपि सार्द्धं निष्कारणवार्तालापकरणावकाशः । तदा तत्रत्यैर्मुनिभिः शास्त्रनिर्दिष्टं 'गयं पि कालं न जाणंति' इति वचनं स्वजीवनेऽनुभूयमानमवगतम् ।
अद्यापि तत्समयसंस्मरणं चेतसि कामपि वचनातीतविषयामानन्दानुभूतिं जनयति । ततश्च अनायासमेव वदनान्निःसरति । ‘ते हि नो दिवसा रम्या: ' ॥
1
258
विविध हैम रचना समुच्चय