________________
पूर्णतल्लगच्छीयश्रीदत्तसूरीश्वरपरम्परायाम् आचार्यश्रीगुणसेन सूरीश्वरपट्टाम्बरदिवाकराः श्रीदेवचन्द्रसूरीश्वराः समभूवन् । प्राकृतभाषायां गद्यपद्यमयश्रीशान्तिनाथचरित्ररचनाकारकास्ते हि पूज्या ग्रामानुग्रामं विहरन्तो धर्मोपदेशदानेन भव्यजनान् प्रतिबोधयन्तश्च धंधुकाग्रामे पादौ अवधारितवन्तः ।।
पूज्याचार्यभगवतां दर्शनमात्रेणैव सञ्जातापूर्वस्नेहसद्भावश्चांगदेवः शनैः शनैः परिचयं कुर्वन् गाढप्रेमास्पदं जातः ।
सूरीश्वरा यदा ततो विहारं कृतवन्तस्तदा बालश्चांगदेवो निजजनकजनन्योरनुमतिं गृहीत्वा तैः सहैव विहारमकरोत् ।
बालोऽप्यबालधिषणः स गुरुणा सह विहरन् क्रमशः स्तंभतीर्थ( खंभात )नगरं संप्राप्तः ।
तत्र तवास्तव्यनेमिनामकतन्मातुलद्वारा चाचिगपाहिण्यौ विबोध्य गुरुश्रीदेवचन्द्रसूरिणा नववर्षीयश्चांगदेवो दीक्षितः, तस्य मुनिसोमचन्द्र इत्यभिधानं च विहितम् । सूरिप्रदप्रदानम्
स्वल्पेनैव कालेन विशिष्टक्षयोपशमबलेन विनाऽऽयासं समधिगतसकलवाङ्मयवैदुष्यं तं गुरुप्रवरः श्रीदेवचन्द्रसूरीश्वरः वि.सं. ११६६तमे वर्षे मरुधरदेशे नागोरनामके नगरे महता महेन सूरिपदं दत्तवान्, तदा तस्य श्रीहेमचन्द्रसूरिरिति नव्याभिधानश्च कृतवान् ।
ततश्च स अजारिनामके ग्रामे वागधिष्ठात्रीं श्रीसरस्वतीदेवीं समाराध्य सम्प्राप्य च तदीयवरप्रसादं विरचय्य तर्कव्याकरणकाव्यकोशछन्दोऽलङ्कारादिसमस्तविषयेषु लघुबृहत्तमाननेकमौलिकग्रन्थान् विरच्य जैनसाहित्यस्य महतीमुपासनां विदधे ।
तेषामनन्यसाधरणं वैदुष्यं निरुपमं ग्रन्थरचनाकौशलञ्च विज्ञाय कोऽपि मतिमान् किं न निजमूर्धानं धुनयेत् ? 212
विविध हैम रचना समुच्चय