________________
( १. कलिकालसर्वज्ञ सूरीश्वराणां प्रशस्तं जीवनम् )
-पूज्याचार्यदेवसूरिशिष्यः विजयहेमचन्द्रसूरिः कलिकालसर्वज्ञेत्यप्रतिमबिरुदेन जगति समस्ते विशेषतश्च जैनशासने प्रख्यातिमन्तः श्रीहेमचन्द्राभिधानाः सूरीश्वरा आहेतशासनस्य बाढं प्रभावनाकारकाः सञ्जाताः ।
तेषां जीवनं कवनञ्च सर्वेषां कृते अत्याश्चर्यकरं विद्यते ।
पूर्वभवीयप्रबलसंस्कारसम्पत्तिं समादायैव ते हि पूज्या अत्रावतरितवन्तः, कथमन्यथा तादृशि लघुतमे वयसि मतिविभवविराजिताः, प्रबलवैराग्यभावनाभावितान्तःकरणाः दीक्षाग्रहणाय समुत्सुकमानसाश्च स्युः ! जन्म दीक्षाग्रहणं च
धंधुकाभिधाने ग्रामे मोढवणिग्ज्ञातीयगुणगौरवशालि-चच्च (चाचिंग)कुले तद्धर्मपत्नी-रत्नकुक्षिणीश्रीचा( पां)हिणीजननीकुक्षौ वि.संवति ११४५ तमे कार्तिकशुक्लपूर्णिमायां समासादितजन्मान एते पूज्यपुरुषा धृतचांगदेवपुण्याभिधाना बाल्यकालादेव विशिष्टक्षयोपशमशालिनो निजापूर्वबुद्धिचातुर्यचमत्कृतविचक्षणचेतस आसन् ।
समवयस्कसहाध्यायिबालकेषु सर्वथाऽनन्यसदृशा ह्येते दर्शनमात्रादेव सर्वेषां परमप्रीतिकरा भृशमाह्लादजनकाश्चाऽभूवन् ।
कलिकालसर्वज्ञ सूरीश्वराणां प्रशस्तं जीवनम्
211