________________
३३. गुरूस्तुतिः धर्मः प्रापि यतो मया शिवफलः कल्पद्रुतुल्योऽनघो, यन्नामस्मृतिरेव मंगलकरी सर्वाघसंहारिणी । श्री तीर्थङ्करशासनैकरसिकः सद्ब्रह्मसौभाग्यभृत्, सोऽयं श्रीगुरुनेमिसूरिभगवान् बोधं विधत्तां मम ॥१॥ रचयिता - पूज्याचार्य श्री विजय नन्दनसूहीयरजी मराशजः
* ३४. ॥ श्री गौतमस्वामिस्तुतिः ॥
(रचना : सं. २०१८)
(प्राभातिक रागः) स्वर्णपद्मासने राजमानं नुवे, योगिराजं सुरेन्द्राय॑पादम् । सर्वलब्ध्याकरं वरगुणांभोनिधि, श्रीवसुभूतिपृथ्व्यङ्गजातम् ॥१॥
सर्वकार्यं नृणां यदभिधानाद् द्रुतं, सिद्ध्यतीष्टं च नो विघ्नलेशः । वर्धमानप्रभोराद्यगणभृद्वरं, बीजमतिशालिनं श्रीन्द्रभूतिम् ॥२॥
पूज्योपाध्याय श्री हेमचन्द्रविजय गणिवराणां... पद्यावलिः
207