________________
यः प्रह्लादनपुर्यां प्राप्य जनि त्रिविधु (१३) वर्षदेशीयः । आसादितजिनमार्गः, सूरिपदं जग्मिवान् 'ऋक्षे ॥७१॥ लुङ्काधिपऋषिमेघः, शरभुज( २५)मुनिभिर्जगाम जिनदीक्षाम् । यत्सविधे निजमतमपि, दुर्गतिपातं विचिन्त्य रयात् ॥७२॥ षण्मासावधि यस्यो-पदेशतोऽकब्बरो नृपाधीशः । अकरोत्सदयोऽमारि-प्रवर्तनं सकलराज्येषु ॥७३॥ विहरन्ननेकदेशे, जिनधर्ममुपादिशन् जनान् यो हि । विहितविविधप्रतिष्ठः, शासनमुद्योतयामास ॥७४॥ जम्बूप्रज्ञप्तिवृत्ति-कर्तुर्मुनयो जगद्गुरोर्यस्य । आसन् द्विसहस्रमिताः, ज्ञानतपोरत्नवारिधयः ॥५॥ नवषष्टितमे वर्षे, ह्युनायामाप देवलोकं यः । तत्स्थलकृतगुरुमन्दिर-महिमा प्रत्यक्ष एवाऽस्ति ॥७६॥ एतद्गुरोश्चरित्रं, वर्णितमेवाऽस्ति हीरसौभाग्ये । एवञ्च हीररासे, रम्ये च जगद्गुरोः काव्ये ७७॥ (अष्टभिःकुलकम्) तत्पदमानसहंसो जातः श्रीविजयसेनसूरीशः । यो दानसूरिकरतो 'ग्रहमितवर्षे ललौ दीक्षाम् ॥७८॥ प्रादादकबरसाहि-य॑स्मै 'काली-सरस्वती' बिरुदम् । विदितश्च य: 'सवाई-हीरविजयसूरि 'रिति भुवने ॥७९॥ यत्संहतौ गुणिखनौ, पूज्या अष्टाऽभवन्नुपाध्यायाः । प्रज्ञांशाश्च शतोर्ध्वाः, मुनयो हि सहस्रयुग्ममिताः ॥८०॥ श्रीऋषभदासनामा, श्राद्धस्तच्छिष्यभावमापन्नः । यो निजकाव्येन्दुकरै-रदीपयद् भूतलं सकलम् ॥८१॥ १. ऋक्षे-सप्तविंशतिवर्षे, ऋक्षं नक्षत्रम्, तस्य सप्तविंशतिसङ्ख्यकत्वात् । २. नवमवर्षे इत्यर्थः ।
श्रीनेमिसौभाग्यमहाकाव्यम् (प्रथमः सर्गः)
97