________________
५५
चतुर्थम् अध्ययनम् यावज्जीवमित्यादिव्याख्यानं पूर्ववत्. ३. उक्तं तृतीयं व्रतम् ।।
(सु.) अधुना तृतीयमाह - [अहावरे तच्चे...] अथापरस्मिन् तृतीये भदन्त ! महाव्रते अदत्तादानाद् विरमणं, सर्वं भदन्त ! अदत्तादानं प्रत्याख्यामीति पूर्ववत्, तद्यथा-ग्रामे वा नगरे वा अरण्ये वा इत्यनेन क्षेत्रपरिग्रहः प्रसिद्धान्येतानि, तथा अल्पं वा बहु वा अणु वा स्थूलं वा, चित्तवद् वा अचित्तवद् वा इत्यनेन तु द्रव्यपरिग्रहः, तत्र अल्पं-मूल्यत एरण्डकाष्ठादि बहु-वज्रादि, अणु-प्रमाणतो वज्रादि, स्थूलमेरण्डकाष्ठादि, एतच्च चित्तवद् वा अचित्तवद् वेति-चेतनाचेतनमित्यर्थः, 'नेव सयं अदिन्नं गेण्हेज्जा इति, नैव स्वयमदत्तं गृह्णामि नैवान्यैरदत्तं ग्राहयामि, अदत्तं गृह्णतोऽप्यन्यान्न समनुजानामीत्येद् यावज्जीवमित्यादि च भावार्थमधिकृत्य पूर्ववत् ५। उक्तं तृतीयं महाव्रतम् ।। ___ अहावरे चउत्थे भंते महव्वए मेहुणाओ वेरमणं, सव्वं भंते मेहुणं पच्चक्खामि, से दिव्वं वा माणुसं वा तिरिक्खजोणियं वा नेव सयं मेहुणं सेविज्जा, नेवन्नेहिं मेहुणं सेवाविज्जा, मेहुणं सेवंते वि अन्ने न समणुजाणामि, जावज्जीवाए तिविहं तिविहेणं, मणेणं, वायाए, काएणं, न करेमि, न कारवेमि, करंतं पि अन्नं न समणुजाणामि, तस्स भंते पडिक्कमामि, निंदामि, गरिहामि, अप्पाणं वोसिरामि । चउत्थे भंते महव्वए उवडिओमि सव्वाओ मेहुणाओ वेरमणं ।।४।। (सू०४.६)
(ति.) चतुर्थमाह-[अहावरे चउत्थे |] अर्थः प्राग्वत् । उक्तं चतुर्थं महाव्रतम्
(स.) अधुना चतुर्थं व्रतमाह-अहावरे इति-अथापरस्मिन् चतुर्थे हे भदन्त! महाव्रते मैथुनाद् विरमणं. सर्वं हे भदन्त ! मैथुनं प्रत्याख्यामि, तद्यथा-मैथुनं त्रेधा-दैवं वा, मानुषं वा, तैर्यग्यौनं वा, तत्र देवानामिदं दैवं = देवदेवीसम्बन्धि, एवं मानुषं तैर्यग्योनिकं च ज्ञातव्यं; न स्वयं मैथुन सेवे, न चान्यैर्मैथुनं सेवयामि, नैव मैथुनं सेवमानानन्यान् समनुजानामीति. यावज्जीवमित्यादि व्याख्यानं पूर्ववत्. ४. उक्तं चतुर्थं व्रतम्,
(सु.) इदानीं चतुर्थमाह-अहावरे' इत्यादि, अथापरस्मिन् चतुर्थे भदन्त ! महाव्रते मैथुनाद् विरमणं, सर्वं भदन्त ! मैथुनं प्रत्याख्यामीति पूर्ववत्, तद्यथा-दैवं वा मानुषं वा तैर्यग्योनं वा, अनेन द्रव्यपरिग्रहः, 'नेव सयं मेहुणं सेवेज्जा' नैव स्वयं मैथुनं सेवे, न चान्यैर्मैथुन सेवयामि, मैथुनं सेवमानानप्यन्यान्न समनुजानामीत्येतद् यावज्जीवमित्यादि च भावार्थमधिकृत्य पूर्ववत् ।६। उक्तं चतुर्थं महाव्रतम् ।।