________________
दशवैकालिकं-टीकात्रिकयुतम्
५२
सामान्येन पूर्वं कथितः, स एव विशेषेण महाव्रतरूपतया आह सूत्रक्रमेण - पढम इतिप्रथमे, भदंत हे गुरो ! महाव्रते. महच्च तद् व्रतं च महाव्रतं महत्त्वं चाणुव्रतापेक्षया, तस्मिन् महाव्रते प्राणातिपाताद्विरमणे, प्राणा एकेन्द्रियास्तेषामतिपातः प्राणातिपात जीवस्य महादुःखोत्पादनं, न तु जीवातिपात एव तस्माद्विरमणं नाम सम्यग्ज्ञानश्रद्धानपूर्वकं सर्वथा निवर्तनं भगवता कथितमिति शेषः यतश्चैवमत उपादेयमिति निश्चित्य सर्वं हे भदन्त ! प्राणातिपातं प्रत्याख्यामीति सर्वं समस्तं न तु परिस्थूलमेव. हे भदन्त हे गुरो ! प्राणातिपातव्याख्यानं पूर्ववत् प्रत्याख्यामि निषेधयामि अथ प्राणातिपातं प्रत्याख्यामीत्युक्तं तद्विशेषतो वक्तुमाह-से शब्दो मागधीभाषाप्रसिद्धोऽथशब्दार्थः. तद्यथा-सूक्ष्मं वा बादरं वा त्रसं वा स्थावरं वा. अत्र सूक्ष्मोऽल्पः परिगृह्यते, न तु सूक्ष्मनाम-कर्मोदयात् सूक्ष्मः कथं ? तस्य कायेन व्यापादनस्याभावात्. बादरोऽपि स चैकैको द्विधा, त्रसः स्थावरश्च तत्र त्रसः सूक्ष्मः कुन्थ्वादिः, स्थावरः सूक्ष्मो वनस्पत्यादिः बादरस्त्रसो गवादिः, बादरः स्थावरः पृथिव्यादिः, एतान् 'नैव सयं पाणे अइवाइज्जत्ति' नैव स्वयं प्राणिनोऽतिपातयामि नैव अन्यैः प्राणिनोऽतिपातयामि, प्राणिनोऽतिपातयतोऽप्यन्यान्न समनुजानामि, यावज्जीवमित्यादि पूर्ववत् ।।
1
(सु.) [...वोसिरामि० इति] अयं चात्मप्रतिपत्त्यर्होदण्डः, सामान्यविशेषसूत्रः इति, सामान्येनोक्तलक्षण एव. स तु विशेषतः पञ्च महाव्रतरूपतया अङ्गीकर्तव्यः इति महाव्रतान्याह-पढमे भंते ! इति सूत्रक्रमप्रामाण्यात् प्राणातिपातविरमणं प्रथमं तस्मिन् प्रथमे भदन्तेति गुरोरामन्त्रणं, महाव्रत इति महच्च तद् व्रतं च महाव्रतं, महत्वमणुव्रतापेक्षया महाव्रते प्राणातिपाताद्विरमणं इति, प्राणा- इन्द्रियादय:, तेषामतिपातः प्राणातिपातः-जीवस्य महादुःखोत्पादनं, न तु जीवातिपात एव, तस्माद् विरमणं नाम सम्यग्ज्ञानश्रद्धान-पूर्वकं सर्वथा निवर्त्तनं, भगवतोक्तमिति वाक्यशेषः, यतश्चैव ‘उपादेयमेतदिति विनिश्चित्य 'सर्वं भदन्त ! प्राणातिपातं प्रत्याख्यामी 'ति सर्वं निरवशेषं, न तु परिस्थूरमेव, भदन्तेति गुर्वामन्त्रणं प्राणातिपातमिति पूर्ववत्, प्रत्याख्यामीतिप्रतिशब्दः प्रतिषेधे, आङाभिमुख्ये, ख्या प्रकथने, प्रतीपमभिमुखं ख्यापनं प्राणातिपातस्य करोमि प्रत्याख्यामीति, अथवा प्रत्याचक्षे - संवृतात्मा साम्प्रतमनागतप्रतिषेधस्यादरेणाभिधानं करोमीत्यर्थः अनेन व्रतार्थपरिज्ञानादिगुणयुक्त उपस्थापनार्ह इत्येतदाहउक्तं च-"पढिए० ।।१।। " इत्यादि, तदेतद्विशेषेणाभिधित्सुराह से सुहुमं वेत्यादि, सेशब्दो मागधदेशीप्रसिद्धः, अथशब्दार्थः, स चोपन्यासे, तद्यथा - 'सूक्ष्मं वा बादरं वा