________________
चतुर्थम् अध्ययनम्
५१
विविधार्थो विशेषार्थो वा विशब्दः, उच्छद्बो भृशार्थः सृजामि-त्यजामि, ततश्च विविधं विशेषेण वा भृशं त्यजामि व्युत्सृजामि, आह - यद्येवमतीतदण्डप्रतिक्रमणमात्रमस्यैदम्पर्यं न प्रत्युत्पन्नसंवरणमनागत- प्रत्याख्यानं चेति, नैतदेवं न करोमीत्यादिना तदुभयसिद्धेरिति ।।सूत्र- २।। अयं चात्मप्रतिप्रत्त्यर्हो दण्डः, सामान्यविशेषरूप इति, सामान्येनोक्तलक्षण एव, स तु विशेषतः पञ्चमहाव्रतरूपतया अङ्गीकर्तव्य इति महाव्रतान्याह
पढमे भंते महव्वए पाणाइवायाओ वेरमणं, सव्वं भंते पाणाइवायं पच्चक्खामि, से सुमं वा बायरं वा तसं वा थावरं वा, नेव सयं पाणे अइवाइज्जा, नेवन्नेहिं पाणे अइवायाविज्जा, पाणे अइवायंते वि अन्ने न समणुजाणामि, जावज्जीवाए तिविहं तिविहेणं, मणेणं, वायाए, काएणं, न करेमि, न कारवेमि, करंतं पि अन्नं न समणुजाणामि, तस्स भंते, पडिक्कमामि, निंदामि गरिहामि, अप्पाणं वोसिरामि ।
·
(ति.) एष सामान्येन षड्जीवकायदण्डनिषेध उक्तः, विशेषतश्च महाव्रतरूपतया स्वीकार्यः । अतो महाव्रतान्याह प्रथमे भदंत ! महाव्रते- श्रावकाणुव्रतापेक्षया महति व्रते । प्राणाः-इन्द्रियादयः,
तथा चोक्तम् -
पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छ्वासनिच्छ्वासमथान्यदायुः प्राणा दशैते भगवद्भिरुक्तास्तेषां वियोगीकरणं च हिंसा ||१||
इन्द्रवज्रा []
तेषामतिपातः प्राणातिपातः - जीवस्य दुःखोत्पादनं, न तु जीवातिपातः, तस्य नित्यत्वात् । तस्माद् विरमणम् - निवर्तनं भगवतोक्तमिति शेषः । सर्वं भदन्त ! प्राणातिपातं प्रत्याख्यामि-प्रति- अविरतिप्रातिकूल्येन, आ - सामस्त्येन, ख्यामि-प्रतिषेधामि, प्राणातिपातविरतिं करोमीत्यर्थः । अथ सूक्ष्मं वा बादरं वा अत्र सूक्ष्मः - अल्पः' परिग्रहः, न तु सूक्ष्मनामकर्मोदयात् सूक्ष्मः, तस्य व्यापादनाभावात्, बादरः- स्थूलः । एकैकोsपि द्विधा- त्रसः स्थावरश्च - सूक्ष्मस्त्रसः कुन्थ्वादिः, सूक्ष्मस्थावरः पनकादिः, बादरस्त्रसो गवादिः, बादरस्थावरः पृथ्व्यादिः । नेव सयं पाणे इत्यादि स्पष्टं प्राग्वत् ।
(स.) [वोसिरामि इति] अयं चात्मप्रत्ययो दण्डः, सामान्यविशेषभेदाद् द्वेधा, तत्र
१. ल्पविग्रहः २.११ ।।