________________
तृतीयम् अध्ययनम्
(सु.) इदानीमेतेषां फलमाह - 'दुक्करा' इति एवं दुष्कराणि कृत्वा औद्देशिकादित्यागादीनि तथा दुस्सहानि सहित्वा आतापनादीनि, केचनात्र देवलोकेषु सौधर्मादिषु, गच्छन्तीति वाक्यशेषः, तथा केचन सिद्ध्यन्ति तेनैव भवेन सिद्धिं प्राप्नुवन्ति, वर्तमाननिर्देशः सूत्रस्य त्रिकालविषयत्वज्ञापनार्थः, नीरजस्का इत्यष्टविधकर्म्मविप्रमुक्ताः, न त्वेकेन्द्रिया इव कर्म्मयुक्ता एवेति ।।३.१४।।
खवित्ता पुव्वकम्माई, संजमेण तवेण य । सिद्धमग्गमणुप्पत्ता, ताइणो परिनिव्वुड त्ति बेमि ।।३.१५ ।।
३३
(ति.) येऽपि देवलोकं गतास्तेऽपि ततश्च्युताः सन्तः साधुधर्मं प्राप्य क्षपयित्वा पूर्वकर्माणि-अशेषाणि । संयमेन तपसा च, सिद्धिमग्र्यां-लोकाग्रस्थाम्, अनुप्राप्ताः, न तु अणिमादिसिद्धिम् । तायिनः । परिनिवृताः - परमां निर्वृतिं भेजुः । इति ब्रवीमि ।।३.१५।। तिलकाचार्यवृत्तौ तृतीयं अध्ययनं 'क्षुल्लकाचारकथा' समाप्तम् ।।
―
(स.) ये चैवंविधानुष्ठानतो देवलोकेषु गच्छन्ति, तेऽपि ततश्च्युत्वार्यदेशे सुकुले जन्म प्राप्य शीघ्रं सिद्ध्यन्त्येव एतदाह - खवित्ता' इति - ते देवलोकात् क्षपयित्वा कर्माण्यवशिष्टानि, केन इति ? - आह-संयमेनोक्तरूपेण सप्तदशभेदेन, पुनस्तपसा द्वादशविधेन सिद्धिमार्गं सम्यग्दर्शनादिलक्षणमनुप्राप्ताः सन्तस्त्रातार आत्मादीनां परिनिवान्ति सिद्धिं प्राप्नुवन्ति इति ब्रवीमि न स्वबुद्ध्या किन्तु तीर्थकरगणधराणामुपदेशेन. ।।३.१५ ।।
इति श्रीदशवैकालिकशब्दार्थवृत्तौ श्रीसमयसुन्दरोपाध्यायविरचितायां क्षुल्लकाचारकथाख्यं तृतीयमध्ययनं समाप्तम्. ।।
(सु.) ये चैवंविधानुष्ठानतो देवलोकेषु गच्छन्ति तेऽपि ततश्च्युता आर्यदेशेषु सुकुले जन्मावाप्य शीघ्रं सिद्ध्यन्त्येवेत्यत आह
केन
‘खवित्ते'ति तदेवं देवलोकाच्च्युत्वा क्षपयित्वा पूर्वकर्माणि सावशेषाणि, इति ? - आह-संयमेन उक्तस्वरूपेण तपसा च एवं प्रवाहेण सिद्धिमार्गं-सम्यग्दर्शनादिलक्षणमनुप्राप्ताः सन्तस्त्रातारः आत्मादीनां परिनिर्व्वान्ति-सिद्धिं प्राप्नुवन्ति, अन्ये तु