________________
३२
दशवैकालिकं-टीकात्रिकयुतम् अलाभरोगतणफासा, मलसक्कारपरीसहा । पन्ना अन्नाणसम्मत्तं, इय बावीसं परीसहा ।।२।। [नवतत्त्व-२७-२८]
त एव रिपवः, ते दान्ताः-शमं नीता यैस्ते दान्तपरीषहरिपवः इत्यर्थः । धुतमोहा:विक्षिप्ताज्ञानाः । जितेन्द्रियाः-शब्दादिष्वरक्तद्विष्टाः । सर्वेषां दुःखानाम्-शारीरमानसानां, प्रहाणार्थम्-प्रक्षयनिमित्तम् । प्रक्रमन्ते-प्रवर्तन्ते महर्षयः ।।३.१३।।
(स.) परीति-पुनः किम्भूताः ? परीषहा एव रिपवस्ते दान्ता उपशमं नीता यैस्ते, पुनः किंभूताः ? धूतो मोहोऽज्ञानं यैस्ते, पुनः किंभूताः ? जितेन्द्रियाः शब्दादिविषयेषु रागद्वेषरहिताः, त एवंविधाः सर्वदुःखक्षयनिमित्तं प्रक्रामन्ति प्रवर्तन्ते. किंभूताः ? महर्षयः ||३.१३।।
(सु.) किञ्च-'परीसहेति ‘मार्गाऽच्यवन-निर्जरार्थं परिषोढव्याः परीषहाः (तत्त्वा० अ० ९.८)-क्षुत्पिपासादयः, त एव रिपवस्तुल्यधर्मत्वात् परीषहरिपवः, ते दान्ताउपशमं नीता यैस्ते परीषहरिपुदान्ताः, धूतमोहा-विक्षिप्तमोहा इत्यर्थः मोहः-अज्ञानं, जितेन्द्रियाः-शब्दादिषु रागद्वेषरहिता इत्यर्थः, एवम्भूताः सर्वदुःखप्रक्षयार्थं-शारीरमानसाशेष-दुःखप्रक्षयनिमित्तं प्रक्रामन्ति-प्रवर्तन्ते महर्षयः-साधव इति ।।३.१३।।
दुक्कराई करित्ताणं, दुस्सहाई सहित्तु य । के इत्थ देवलोगेसु, केई सिझंति नीरया ।।३.१४।।
(ति.) इदानीमेतेषां फलमाह-दुःकराणि-औद्देशिकत्यागादीनि कृत्वा । णंवाक्यालङ्कारे । दुःसहानि-आतपादीनि सोढ्वा । केचिदत्र देवलोकेषु-सौधर्मादिषु, यान्तीति शेषः । केचित् सिध्यन्ति नीरजसः-क्षपितकर्माष्टकाः ।।३.१४।।
(स.) अथैतेषां फलमाह-दुक्कर इति-एवं दुष्कराण्यौद्देशिकादित्यागादीनि कृत्वा, तथा दुस्सहान्यातापनादीनि सहित्वा केचिद्देवलोकेषु सौधर्मादिषु गच्छन्तीति शेषः. केचन सिद्ध्यन्ति, तेनैव भवेन सिद्धिं प्राप्नुवन्ति. किंभूताः ? नीरया निर्गतं रजोऽष्टविधं कर्म येभ्यस्तेऽष्टविध-कर्मविप्रमुक्ताः, न त्वेकेन्द्रिया इव कर्मयुक्ताः. ।।३.१४ ।।
१.स.४ ।।२.०स्ते परीषहरिपुदन्ताः दान्त.६-१२ ।।