________________
१४
दशवकालिकं-टीकात्रिकयुतम् दिवसभुक्तादिचतुर्भङ्गलक्षणं ५, 'स्नानं च'-देशसर्वभेदभिन्नं, देशस्नानमधिष्ठानशौचातिरेकेणाक्षिपक्ष्मप्रक्षालनमपि, सर्वस्नानं तु प्रतीतं ६, तथा 'गन्ध-माल्य-वीजनं' च गन्धग्रहणात् कोष्ठपुटादिपरिग्रहः, माल्यग्रहणाच्च ग्रथितवेष्टिमादेर्माल्यस्य, वीजनं तालवृन्तादिना घर्मे ७-८-९। इदमनाचरितं, दोषाश्चौद्देशिकादिष्वारम्भप्रवर्त्तनादयः स्वधिया वाच्या इति ।।३.२।।
सन्निही गिहिमत्ते य', रायपिंडे किमिच्छए । संवाहण दंतपहोअणा य, संपुच्छणा देहपलोयेणा य ।।३.३।। (ति.) तथा-सन्निधीयते दुर्गतावात्मा अनेनेति सन्निधिः । आहाराणां स्वाश्रये स्वार्थं परार्थमपि वा स्थापनं गृहमात्रं गृहस्थभाजनम् । राजपिण्डः-नृपाहारः । कः किमिच्छतीत्येवं यो दीयते पिण्डः स किमिच्छकः । निरुक्त्या शब्दसिद्धिः । 'संवाहनम्अस्थिमांस-त्वग्-रोमसुखदं मर्दनम् । दन्तप्रधावनम्- इष्टिकाचूर्णाङ्गुल्यादिमिर्दन्तक्षालनम् । सम्प्रश्नः-सावद्यो गृहस्थादिविषयः, कीदृशोऽहं रूपेणेत्यादिको वा | देहप्रलोकनम् आदर्शादौ, दोषाश्चैषु परिग्रह-प्राणिघात-शोभाद्याः ।।३.३।।
(स.) पुनरिदमनाचरितम्-सन्निहीति-सन्निधीयतेऽनेनात्मा दुर्गताविति सन्निधिः, गुडघृतादीनां सञ्चयकरणं, गृहमत्रं च गृहस्थभाजनं, राजपिण्डश्च नृपाहारः, किमिच्छसीत्येवं यो दीयते स किमिच्छकः, राजपिण्डोऽन्यो वा सामान्येन, तथा संबाधनमस्थि-मांस-त्वग्-रोमसुखतया चतुर्विधं मर्दनं, दन्तप्रधावनं चागुल्यादिना मुखक्षालनं, संप्रश्नः सावद्यो गृहस्थविषयः, शोभार्थं कीदृशो वाहमित्यादिरूपः, देहप्रलोकनं चादर्शादौ, अनाचरितदोषाश्च सन्निधिप्रभृतिषु परिग्रह-प्राणातिपातादयः स्वबुद्ध्या वाच्याः ||३.३।। __ (सु.) इदं चानाचरितमिति – 'सन्निही सूत्रं, सन्निधीयते अनेन आत्मा दुर्गताविति सन्निधिः-घृतगुडादीनां सञ्चयक्रिया १०, 'गृहमा(म)त्रं च'-गृहस्थभाजनं च ११, तथा राजपिण्डो-नृपाहारः, कः किमिच्छतीत्येवं यो दीयते स 'किमिच्छकः', राजपिण्डोऽन्यो वा सामान्येन १२, तथा सम्बाधनं-अस्थि-मांस-त्वग्-रोमसुखतया चतुर्विधं मर्दनं १३, दन्तप्रधावनं च-अंगुल्यादिना दन्तक्षालनं १४, तथा सम्प्रश्नः-सावद्यो गृहस्थविषयो १. अ. ८ ।। २.०अ. ६-९ ।। ३. इतयतः क्षालनं यावत् पाठः १२ प्रतौ नास्ति ।। ४. दन्तकाष्ठागु. २.६-८.१०.११, दन्तकाष्ठइष्टिका.५ ।। ५.०ना दन्त.४ ।।