________________
अष्टमम् अध्ययनम्
२८१
(सु.) किञ्च–विसएसु' इति, विषयेषु - शब्दादिषु, मनोज्ञेषु - इन्द्रियानुकूलेषु, प्रेमरागं नाभिनिवेशयेत्-न कुर्यात्, एवममनोज्ञेषु द्वेषं, आह-उक्तमेवेदं प्राक् "कन्नसोक्खेहिइत्यादौ" (८.२६) किमर्थं पुनरुपन्यास इति ?, उच्यते - कारणविशेषाभिधानेन विशेषोपलम्भार्थ -मिति, आह च- अनित्यमेवपरिणामानित्यतया तेषां - पुद्गलानां, तुशब्दात् शब्दादिविषय-सम्बन्धिनामितियोगः, विज्ञाय -अवेत्य जिनवचनानुसारेण, किम् ?इत्याह-परिणामं-पर्यायान्तरापत्तिलक्षणं, ते हि मनोज्ञा अपि क्षणादमनोज्ञतया परिणमन्ति, अमनोज्ञा अपि मनोज्ञतयेति, तुच्छं रागद्वेषयोर्निमित्तमिति ।।८.५८।।
पुंग्गलाण परीणामं, तेसिं नच्चा जहा तहा ।
विणीयतण्हो विहरे, सीईभूएण अप्पणा ।।८.५९ । ।
(ति.) एतदेव स्पष्टयन्नाह - तेषां शब्दादिपुद्गलानां यथा तथा मनोज्ञा- मनोज्ञतया परिणामं ज्ञात्वा । विनीततृप्तः शब्दादिषु विगताभिलाषो विहरेत् । शीतीभूतेनक्रोधाद्यग्न्यपगमात् । प्रशान्तेन आत्मना ।।८.५९ । ।
(स.) एतदपि स्पष्टयन्नाह - पोग्गलाणं 'इति-शीतीभूतेन क्रोधादीनां त्यागात् प्रशान्तेनात्मना विहरेत् किं कृत्वा ? तेषां पूर्वोक्तानां पुद्गलानां परिणामं यथा मनोज्ञा अमनोज्ञतया भवन्ति, तथा ज्ञात्वा किम्भूतः साधुः ? विनीततृष्णो गताभिलाषः शब्दादिषु. ।।८.५९।।
(सु.) एतदपि स्पष्टयन्नाह - पोग्गलाणं' इति, पुद्गलानां-शब्दादिविषयान्तर्गतानां परिणाम्, उक्तलक्षणं तेषां ज्ञात्वा - विज्ञाय, यथा मनोज्ञेतररूपतया भवन्ति, तथा ज्ञात्वा विनीततृष्णः - अपेताभिलाषः शब्दादिषु विहरेत् शीतीभूतेन-क्रोधाद्यग्न्युपगमात् प्रशान्तेनात्मनेति ।।८.५९ ।।
जाए सद्धाए निक्खंतो, परियायद्वाणमुत्तमं ।
तमेव अणुपालिज्जा, गुणे आयरियसम्मए ।।८.६० ।।
(ति.) किञ्च-यया श्रद्धया निःक्रान्तः - भववैराग्यपरिणामरूपया । पर्यायस्थानम्प्रव्रज्यारूपम्। मोक्षलक्षणोत्तमपदप्राप्तिहेतुत्वाद् उत्तमं प्राप्तः । तामेव-श्रद्धाम् ।
१. ‘पोग्गलाणं' इति पाठोन्यत्र मुद्रितः ।
२. जाइ सद्धाइ निक्खंतो...। तमेव अनुपालिज्जा... इति मुद्रितोन्यत्र पाठः ।।