________________
२८०
दशवैकालिकं-टीकात्रिकयुतम् अंग-पच्चंगसंठाणं, चारुल्लविय-पहियं । इत्थीणं तं न निज्झाए, कामरागविवड्ढणं ।।८.५७।। (ति.) स्पष्टः ।।८.५७।।
(स.) अंग...इति-पुनः किञ्च साधुः स्त्रीणामेतानि न निध्यायेन्न निरीक्षेत न पश्येत्, कुत ? इत्याह-कामरागविवर्धनमिति, एतन्निरीक्ष्यमाणं मोहदोषान्मैथुनाभिलाषं वर्धयति, अत एवास्य प्राक् स्त्रीणां निरीक्षणप्रतिषेधाद्-गतार्थतायामपि प्राधान्यख्यापनार्थं भेदेनोपन्यासः कृतः, एतानि कानि ?-इत्याह-अङ्गानि शिरःप्रभृतीनि, प्रत्यङ्गानि नयनादीनि, एतेषां संस्थानं विन्यासविशेषं, तथा चारु शोभनं लपितं जल्पितं प्रेक्षितं निरीक्षितं स्त्रीणां सम्बन्धि सर्वम्. ।।८.५७।।
(सु.) किञ्च-अंगपच्चंग...इति, अङ्ग-प्रत्यङ्गसंस्थानमिति, अङ्गानिशिरःप्रभृतीनि, प्रत्यङ्गानि-नयनादीनि, एतेषां संस्थान-विन्यासविशेष, तथा चारु शोभनं लपित-प्रेक्षितं लपितं-जल्पितं, प्रेक्षितं-निरीक्षितं, स्त्रीणां सम्बन्धि, तदङ्गप्रत्यङ्ग-संस्थानादि न निरीक्षेत-न पश्येत्, कुत ? इत्याह-कामरागविवर्द्धनमिति, एतद्धि निरीक्ष्यमाणं मोहदोषान्मैथुनाभिलाषं वर्द्धयति, अत एवास्य प्राक् स्त्रीणां निरीक्षणप्रतिषेधात् गतार्थतायामपि प्राधान्यख्यापनार्थो भेदेनोपन्यास इति ।।८.५७।।
विसएसु मणुन्नेसु, पिम्मं नाभिनिवेसए । अणिच्चं तेसु विनाय, परिणाम पुग्गलाण ये ।।८.५८।।
(ति.) विषयेषु मनोज्ञेषु प्रेम ना-ऽभिनिवेशयेत् । अमनोज्ञेषु च द्वेषमिति ज्ञेयम् । किं कृत्वा ?-तेषु-विषयेषु पुद्गलानां परिणामम् अनित्यं विज्ञाय । ते हि विषयपुद्गलाः मनोज्ञा अपि अमनोज्ञाः, अमनोज्ञा अपि मनोज्ञाः कालक्रमेण भवन्ति । ततो न तेषु रागद्वेषौ कार्यावित्यर्थः ।।८.५८ ।।
(स.) विसएसु'इति-पुनः किञ्च साधुर्विषयेषु शब्दादिषु, प्रेम राग नाभिनिवेशयेन्न कुर्यात, किम्भूतेषु विषयेषु? मनोज्ञेष्विन्द्रियाणामनुकुलेषु, अमनोज्ञेषु च द्वेषं न कुर्यात, किं कृत्वा ? तेषां पुद्गलानां तुशब्दाच्छब्दादिविषयसम्बन्धिनामनित्यतया परिणाम विज्ञाय जिनवचनानुसारेण, कथं ? विज्ञायते हि मनोज्ञा अपि क्षणादमनोज्ञतया परिणमन्ति, अमनोज्ञा अपि क्षणान्मनोज्ञतया परिणमन्ति, ततस्तयोरुपरि रागद्वेषकरण निरर्थकमिति. ||८.५८ ।। १. 'उ' इति पाठोन्यत्र मूलतः, तथैव च 'तु' इति विवृतः ।