________________
सप्तमम् अध्ययनम्
२४३
(सु.) किञ्च - तहेव' इति, तथैव सावद्यानुमोदिनी गीः- वाक् यथा सुष्ठु हतो ग्राम इति, तथा अवधारिणी- इदमित्थमेवेति संशयकारिणी वा, या च परोपघातिनी, यथा-मांसमदोषाय, से इति तामेवंभूतां, क्रोधात् लोभाद् भयाद् वा हासाद् वा, मानप्रेमादीनामुपलक्षणमेतन्मानवः पुमान् साधुर्न हसन्नपि गिरं वदेत्, प्रभूतकर्मबन्धहेतुत्वादिति ।।७.५४ ।।
सव्वक्कसुद्धिं समुपेहिया मुणी, गिरं च दुद्वं परिवज्जए सया मियं अदुद्वं अणुवीइ भासए, सयाण मज्झे लहई पसंसणं ।।७.५५ ।।
(ति.) वाक्यशुद्धिफलमाह - सती चासौ वाक्यशुद्धिश्च सद्वाक्यशुद्धिः, स्ववाक्यस्य वा शुद्धिः स्ववाक्यशुद्धिस्ताम्, अथवा स मुनिः वाक्यशुद्धिम् । समुत्प्रेक्ष्य गिरं तु । दुष्ट(ष्टा)म्-सावद्यादिरूप (पा) म् । परिवर्जयेत् सदा । मिताम् अदुष्टाम् अनुविचिन्त्य भाषमाणः सतां मध्ये लभते प्रशंसनम् ।।७.५५ ।।
(स.) अथ वाक्यशुद्धिफलमाह - सु ( स ) वक्क' इति - मुनिर्दुष्टां गिरं परिवर्जयेत्, किं कृत्वा ? स्ववाक्यशुद्धिं स्वकीयवाक्यशुद्धिं सद्वाक्यशुद्धिं शोभनां वाक्यशुद्धिं वा संप्रेक्ष्य सम्यग् दृष्ट्वा सदा सर्वदा, तर्हि कीदृशीं वदेत् इत्याह- मितं स्वरतः परिणामतश्चादुष्टं देशकालोपपन्नादि विचिन्त्य पर्यालोच्य भाषमाणः सतां साधूनां मध्ये प्रशंसनं प्रशंसां प्राप्नोतीत्यर्थः ।।७.५५ ।।
(सु.) वाक्यशुद्धिफलमाह - सवक्क' इति, सद्वाक्यशुद्धिं स्ववाक्यशुद्धिं वा सवाक्यशुद्धिं वा, सतीं शोभनीं ( नां), स्वां आत्मीयां, स इति वक्ता, वाक्यशुद्धिं संप्रेक्ष्य - सम्यग् दृष्ट्वा मुनिः साधुः, गिरं तु दुष्टां यथोक्तलक्षणां परिवर्जयेत् सदा, किंतु मितं स्वरतः परिमाणतश्च, अदुष्टं- देशकालोपपन्नादि अनुविचिन्त्य - पर्यालोच्य भाषमाणः सन् सतां साधूनां मध्ये लभते प्रशंसनं प्राप्नोति प्रशंसामिति । ।७.५५ ।।
भासाय (इ) दोसे य गुणे य जाणिया, तीसे य दुट्टे परिवज्जए सया छसु संजए सामिणीए सया जए, वयज्ज बुद्धे हियमाणुलोमियं । ।७.५६ ।
(ति.) यतश्चैवमतः-भाषाया दोषांश्च गुणांश्च ज्ञात्वा, तस्याश्च दुष्टाया भाषायाः
१. मुद्रितोऽन्यत्र 'सुवक्क... इति पाठः ।।
१७