________________
२४२
दशवैकालिकं-टीकात्रिकयुतम् अंतलिक्खि त्ति णं बूया, गुज्झाणुचरिय त्ति य । रिद्धिमंतं नरं दिस्स, रिद्धिमंतं ति आलवे ||७.५३।।
(ति.) णं'इति एतन्नभः अन्तरिक्षमिति ब्रूयात् । गुह्यकानुचरितमिति वा-गमनागमनेन देवैः सेवितमित्यर्थः । तथा ऋद्धिमन्तं नरं दृष्ट्वा ऋद्धिमानयमित्यालपेत् ||७.५३।।
(स.) पुनराकाशमाश्रित्याह-अंतलिक्ख'इति-साधुरिह नभोऽन्तरिक्षमिति ब्रूयात्, गुह्यानुचरितमिति वा, सुरसेवितमित्यर्थः, एवं किल मेघोऽपि तदुभयशब्दवाच्य एव, तथा ऋद्धिमन्तं सम्पदा सहितं नरं दृष्ट्वा, किमित्याह-ऋद्धिमन्तमिति ऋद्धिमानयमित्येवमालपेत्, कथं व्यवहारतो मृषावादादि-परिहारार्थम्. |७.५३ ।।
(सु.) नभ आश्रित्याह-अंतलिक्ख...इति, इह नभोऽन्तरिक्षमिति ब्रूयात्, गुह्यानुचरितमिति वा सुरसेवितमित्यर्थः, एवं किल मेघोऽप्येतदुभयशब्दवाच्य एव, तथा ऋद्धिमन्तं-संपदुपेतं नरं दृष्ट्वा, किम् ?-इत्याह-ऋद्धिमन्तमिति ऋद्धिमानयमित्येवमालपेत् व्यवहारतो मृषावादादिपरिहारार्थम् ।।७.५३ ।।
तहेव सावज्जणुमोयणी गिरा, ओहारिणी जा य परोवघाइणी । सो कोह लोह भय हास माणवो, न हासमाणो वि गिरं वइज्जा |७.५४।।
(ति.) तथैव सावद्यानुमोदिनी गी:-यथा, सुष्ठु हतो ग्राम इति । अवधारिणीयथा, इदमित्थमेव । या च परोपघातिनी-यथा, मासं. न दोषाय'इति । स-इति तां क्रोधाद् लोभाद् भयाद् हास्यात् । मानवः-साधुः । हसन्नपि गिरं नो वदेत्-प्रभूतकर्मबन्धहेतुत्वात् ।।७.५४।।।
(स.) तहेव'इति-पुनः किंच मानवः पुमान् साधुर्हसन्नप्येवं गिरं न वदेत्, कस्मात् ? प्रभूतकर्महेतुत्वात्, एवं काम् ?-इत्याह-तथैव पूर्वोक्तप्रकारेण सुष्ठु हतो ग्राम इति सावद्यानुमोदिनी गीर्-वाणी भाषा, तां नो वदेत्, तथेत्थमेवेत्यसंशयकारिण्यवधारिणी भाषा, तामपि नो वदेत्, पुनर्या च परोपघातिनी, यथा मांसं न दोषाय, से इति तामेवंभूतामपि नो वदेत्, कस्मात् ?-मानव एवंभूतां सपापां भाषां वदति ?-इत्याहक्रोधाद् वा लोभाद् वा भयाद् वा, उपलक्षणत्वात् प्रमादादेर्वा. |७.५४ ।।