________________
२२८
दशवैकालिकं-टीकात्रिकयुतम्
निःपन्नशाखाः । विंटपिनः । वदेद् दर्शनीया इति ।।७.३१।।
(स.) एवं किं ? - इत्याह-जाइमन्ता इति - साधुरिति वदेत्, इतीति किम् ? एते वृक्षा जातिमन्त उत्तमजातीया अशोकादयोऽनेकप्रकारा वा उपलभ्यमानस्वरूपाः, पुनः दीर्घा नालिकेरी-प्रभृतयः, पुनर्वृत्ता नन्दिवृक्षादयः, पुनर्महालया वटादयः, पुनरेते प्रजातशाखा उत्पन्नडाला विटपिनः प्रशाखावन्तः पुनरेते दर्शनीया इति वदेत्, एवमपि कदा वदेत् ? प्रयोजने विश्रमण - तदासन्नमार्गकथनादावुत्पन्ने सति, अन्यदा नेति. ।।७.३१।।
(सु.) जाइमंता' इति, जातिमन्तः- उत्तमजातीया अशोकादयोऽनेकप्रकारा वा एतेउपलभ्यमानस्वरूपा वृक्षा, दीर्घ वृत्ता - महालयाः- दीर्घा नालिकेरिप्रभृतयो, वृत्ता नन्दिवृक्षादयो, महालया वटादयः, प्रजातशाखा - उत्पन्नडाला, विटपिनः - प्रशाखावन्तो वदेद् दर्शनीया इति, एते च प्रयोजने उत्पन्ने विश्रमण-तदासन्नमार्गकथनादौ वदेन्नान्यदेति । ।७.३१।।
तहा फलाणि पक्खाणि, पायखज्जाणि नो वए । वेलोइमाइं टालाइं, वहिमाइं त्ति नो वए ।।७.३२ ।।
(ति.) तथा । फलानि - आम्रफलादीनि । पक्वानि । पाकखाद्यानि - पाकेन खाद्यानि । गर्ताप्रक्षेप-कोद्रव-पलालादिना विपाच्य भक्षणयोग्यानि इति नो वदेत् । वेलोचितानि - ग्रहणकालप्राप्तानि । टालानि - टालनीयानि, अबद्धास्थीनि अद्यापि कोमलानि द्वैधिकानि-द्वेधीभावकरणयोग्यानि । नो वदेत् । गृहिणां साधुवचनात् तद्ग्रहणादौ साधोः संयमविराधना । ।७.३२ ।।
(स.) पुनः किं न वदेदित्याह - तहा' इति - साधुरिति नो वदेत्, इतीति किं ? तथा फलान्याम्रादीनि पाकप्राप्तानि जातानि तथा पाकखाद्यानि बद्धास्थीनि गर्ताप्रक्षेपकोद्रवपलालादिना विपाच्य भक्षणयोग्यानीति, तथा वेलोचितानि पाकातिशयतो ग्रहणकालोचितानि, अतः परं कालं न विषहन्त इत्यर्थः, तथा टालान्यबद्धास्थीनि कोमलानीति, तथा द्वैधिकानीति पेशीसम्पादनेन द्वैधीभावकरणयोग्यानि वेति नो वदेत्, दोषाः पुनरत्रैते - ऊर्ध्वं च नाश एवामीषां न शोभनानि वा प्रकारान्तरभोगेनेत्यवधार्य
१. प्रशाखावन्तः १० टि. ।।