________________
सप्तमम् अध्ययनम्
२२७
(ति.) आसनम्-आसन्दिकादि । शयनम् - पर्यङ्कः । यानम् - वाहनम् । भवेत् किञ्चिदुपाश्रये-द्वारपत्रादिः । एतैर्वृक्षैरित्येतां भूतोपघातिनीम् - सत्त्वपीडाकरीम् । भाषां नैवं भाषेत । प्रज्ञावान् - साधुः । दोषश्चात्र तद्वनस्वामी व्यन्तरादिः कुप्येत् । संयमात्मविराधनैव ।।७.२९ ।।
(स.) पुनः—आसणं'इति । प्रज्ञावान् साधुरेवंविधां भूतोपघातिनीं प्राणिसंहारकारिणीं भाषां न भाषेत, एवं काम् ? - इत्याह-एतेषु वृक्षेष्वासनम् - आसन्दकादि, शयनं पर्यङ्कादि, यानं युग्यादि भवेत्, वा किञ्चिदुपाश्रये वसतौ, अन्यद् वा द्वारपात्रादि । दोषाश्चात्र. तद्वनस्वामी व्यन्तरादिर्वा कुप्येत्, सलक्षणो वा वृक्ष इति गृह्णीयात्, अनियमितभाषिणो लाघवं चेत्यादयः ।।७.२९।।
(सु.) तथा—आसणं‘इति, आसनं- आसन्दकादि, शयनं पर्यङ्कादि, यानं - युग्यादि, भवेद् वा किंचिदुपाश्रये - वसतावन्यद् वा द्वारपात्राद्येतेषु वृक्षेष्विति, भूतोपघातिनीं - सत्त्वपीडाकारिणीं भाषां नैव भाषेत प्रज्ञावान् साधुरिति, दोषाश्चात्र तद्वनस्वामी व्यन्तरादिः कुप्येत्, सलक्षणो वा वृक्ष इत्यभिगृह्णीयात्, अनियमितभाषिणो लाघवं चेत्येवमादयो योज्याः । । ७.२९ ।।
तहेव गंतुमुज्जाणं, पव्वयाणि वणाणि य ।
रुक्खा महल्ल पेहाए, एवं भासिज्ज पन्नवं । । ७.३० ।।
(ति.) अत्रैव विधिमाह - विश्रमणाय मार्गप्रश्नकथनादौ कार्ये महावृक्षप्रेक्षणे चैवं वदेत् ।।७.३०।।
(स.) अत्रैव विधिमाह - तहेव ' इति - वस्तुतः पूर्ववदेव, नवरं महतो वृक्षान् प्रज्ञावान् साधुरेवं भाषेत. । । ७.३० ।।
(सु.) अत्रैव विधिमाह - तहेव ' इति - वस्तुतः पूर्ववदेव, नवरमेवं भाषेत ।।७.३०।।
जाइमंता इमे रुक्खा, दीहवट्टा महालया ।
पयायसाला विडिमा, वए दरिसणि त्ति य । ।७.३१।।
(ति.) जातिमन्तः-उत्तमजातयः । इमे - अशोकादयो वृक्षा । दीर्घवृत्ता महालयाःदीर्घा - नालिकेर्यादयः, वृक्षाः - सहकाराद्याः, महालयाः वटाद्याः । प्रजातशालाः१. दृष्ट्वेति पाठन्तरम् ।
૧૬