________________
दशवैकालिकं- टीकात्रिकयुतम्
(सु.) साम्प्रतमष्टादशं शोभावर्जनास्थानमुच्यते -शोभायां नास्ति दोषः, ‘अलङ्कृतश्चापि धर्ममाचरेत्'[ ]इत्यादिवचनात् पराभिप्रायमात्रमाशङ्क्याह - नग्नस्यापि - कुचेलवतोऽपि उपचारनग्नस्य निरुपचरितस्य नग्नस्य वा जिनकल्पिकस्येति सामान्यविषयमेव सूत्रं, मुण्डस्य - द्रव्य-भावाभ्यां, दीर्घरोमनखवतः- दीर्घरोमवतः कक्षादिषु, दीर्घनखवतो हस्तादौ जिनकल्पिकस्य, इतरस्य तु प्रमाणयुक्ता एव नखा भवन्ति यथाऽन्यसाधूनां शरीरेषु तमस्यपि न लगन्ति । मैथुनादुपशान्तस्योपरतस्य किं विभूषयाराढ्या प्रयोजनं (कार्यं ) ? न किञ्चिदिति ।।६.६४।।
२०६
विभूसावत्तियं भिक्खू, कम्मं बंधइ चिक्कणं ।
संसारसागरे घोरे, जेणं पडइ दुरुत्तरे ।।६.६५ ॥
(ति) विभूषाया अपायमाह - विभूषाप्रत्ययम् - विभूषानिमित्तम् । शेषं स्पष्टम् ।।६.६५।।
(स.) इत्थं [विभूषा] प्रयोजनस्याभावं कथयित्वापायमाह - विभूसा ... इति - साधुस्तत्कर्म बध्नाति, किंभूतं कर्म ? विभूषाप्रत्ययं विभूषानिमित्तं पुनः किंभूतं कर्म ? चिक्कणं दारुणं, तत् किं ? येन कर्मणा साधुः संसारसागरे भवसमुद्रे पतति किंभूते संसारे ? घोरे रौद्रे, पुनः किंभूते संसारे ? दुरुत्ता (त्त) रेऽकुशलानुबन्धतोऽत्यन्तदीर्घे. ।।६.६५ ।।
(सु.) इत्थं प्रयोजनाभावमभिधायापायमाह - विभूस... इति, विभूषाप्रत्ययंविभूषानिमित्तं भिक्षुः साधुः कर्म्म बध्नाति चिक्कणं-दारुणं, संसारसागरे घोरे-रौद्रे येन कर्मणा पतति दुरुत्तरे - अकुशलानुबंधतोऽत्यन्तदीर्घ इति ।।६.६५।।
विभूसावत्तियं चेयं, बुद्धा मन्नंति तारिसं ।
सावज्जबहुलं चेयं, नेयं ताईहि सेवियं ।।६.६६ ॥
(ति.) मनःसङ्कल्पितविभूषापायमाह - विभूषानिमित्तं चेतः । बुद्धाः-जिनाः । मन्यन्ते । तादृशम्-कर्मबन्धहेतुभूतम् । सावद्यबहुलं चैतत् - आर्त्तध्यानकारि । नेदं साधुभिः तायिभिः । सेवितम् - कृतमित्यर्थः । उक्तः शोभावर्जनास्थानविधिः । तदभिधानादष्टादशं पदं, तदभिधानाच्चोत्तरगुणाः ।।६.६६ ।।
(स.) एवं बाह्यविभूषायामपायमुक्त्वा सङ्कल्पविभूषायामामपायमाह - विभूसा ... इति