SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ षष्ठम् अध्ययनम् २०५ (ति.) स्नानम् अथवा । कल्कम्-चन्दनकल्कादि । रोध्रम्-गन्धद्रव्यम् । पद्मकानिकुङ्कुमकेशराणि । अन्यदप्येवंविधं गात्रस्योद्वर्तनार्थं नाचरन्ति कदाचिदपि साधवः उक्तः सप्तदश स्थानविधिः ।।६.६३ ।। (स.) सिणाणं'इति स्नानं पूर्वोक्तम्, अथवा कल्कं चन्दनादि, लोभ्रं गन्धद्रव्यं, पद्मकानि च कुङ्कुमकेसराणि, चशब्दादन्यदप्येवंविधं गात्रस्योद्वर्तनार्थमुद् वर्तननिमित्तं कदाचिदपि यावज्जीवमेव साधवो नाचरन्ति उक्तः स्नानविधिः, तस्य कथनेन सप्तदशस्थानमप्युक्तम् ।।६.६३।। (सु.) किञ्च–सिणाणं'इति, स्नानं पूर्वोक्तं, अथवा कल्कं-चन्दनादि, लोभ्रं-गन्धद्रव्यं, पद्मकानि च-कुङ्कुमकेसराणि, चशब्दादन्यच्चैवंविधं गात्रस्योद्वर्तनार्थं-उद्वर्तननिमित्तं नाचरन्ति कदाचिदपि-यावज्जीवमिति भावसाधव इति उक्तोऽस्नानविधिः, तदभिधानात् सप्तदशं स्थानम् ।।६.६३।। निगिणस्स वावि मुंडस्स, दीहरोमनहसिणो । मेहुणा उवसंतस्स, किं विभूसाइ कारियं ।।६.६४।। (ति.) अष्टादशमाह-नग्नाः सर्वथा जिनकल्पी, उपचारात् प्रमाणोपेतवस्त्रधार्यपि नग्नः । तस्य मुण्डस्य-कृतलोचस्य । दीर्धरोमनखांशिनः-रोमाणि-कक्षादेः, नखांशाः पाणिपादनखावयवाः । मैथुनादुपशान्तस्य-निवृत्तस्य । किं विभूषया कार्यम् ? ||६.६४।। (स.) सांप्रतमष्टादशं स्थानमुच्यते शोभावर्जननाम-नगिण...इति-शोभायां दोषो नास्ति, यतोऽलङ्कृतश्चापि धर्ममाचरेत्...इत्यादि वचनात् [ ] इति पराभिप्रायमाशङ्क्याह-एवंविधस्य साधोर्विभूषया शोभया किं कार्यं ? न किञ्चिदित्यर्थः, किं भूतस्य साधोः ! नग्नस्य वापि कुचै(चे)लवतोऽप्युपचारनग्नस्य, निरुपचरितनग्नस्य वा जिनकल्पिकस्येति सामान्यविषयमेव सूत्रं, तथा मुण्डस्य द्रव्यतो भावतश्च, पुनर्दीर्घरोमनखवतः,-[दीर्घरोमवतः]कक्षादिषु, दीर्घनखवतो [हस्तादौ] जिनकल्पिकस्य, इतरस्य तु प्रमाणयुक्ता एव नखा भवन्ति, पुनर्मैथुनादुपशान्तस्योपरतस्येति. ||६.६४।।
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy