________________
११२
दशवैकालिकं-टीकात्रिकयुतम् वा आरनालादि, खादिम लड्डुकादि, स्वादिमं हरीतक्यादि साधुर्यज्जानीयात्, स्वयमामन्त्रणादिना वाऽथवान्यतः शृणुयात्, किं, ? यदिदमशनादिकं, 'दाणट्ठापगडं' कोऽर्थः ? कोऽपि वणिग्देशान्तरादायातः साधुनिमित्तं ददाति, अथवा अव्यापारपाखण्डिभ्यो ददाति, तदप्यशनादिकं न गृह्णीयात् ।।५.४७ ।।
(सु.) किञ्च-असणं'इति, अशनं पानकं वापि खाद्यं स्वाद्यं, तद्यथा-ओदनआरनालादि-,लड्डुक-हरीतक्यादि, यज्जानीयादामन्त्रणादिना, शृणुयाद् वान्यतो यथा दानार्थं प्रकृतमिदं, दानार्थं प्रकृतं नाम साधुवाद निमित्तं यो ददाति अव्यापारपाषण्डिभ्यो [वा] देशान्तरादेरागतो वणिक्प्रभृतिरिति सूत्रार्थः ।।५.४७ ।।
तं भवे (तारिस) भत्तपाणं तु, संजयाण अकप्पियं । दितियं पडियाइक्खे, न मे कप्पइ तारिसं ।।५.१.४८ ।। (ति.) स्पष्टः ।
(स.) तत् किं कुर्यात् ? इत्यत आह-तारिसं'इति-तादृशमशनादिकं ददतीं स्त्रियं प्रति साधुः, किं वदेदित्याह-तद् भक्तपानं साधुपाखण्डिदानार्थं यत् प्रकल्पितं तत्संयतानामकल्पिकं न कल्पते ग्रहीतुं, यतः कारणादेवं तद् ददती स्त्रियं प्रत्याचक्षीत वदेत् साधुर्यन्न मम कल्पते तादृशमिति. ४८. ___ (सु.) 'तारिसं'इति-तादृशं भक्तपानं दानार्थं प्रवृत्तव्यापारं संयतानामकल्पिकं । यतश्चैवम् ?-अतो ददतीं प्रत्याचक्षीत-न मम कल्पते तादृशमिति ।।५.४८ ।।
असणं पाणगं वा वि, खाइमं साइमं तहा । जं जाणिज्ज सुणिज्जा वा, पुन्नट्ठा पगडं इमं ।।५.१.४९।।
तं भवे भत्तपाणं तु, संजयाण अकप्पियं । दितियं पडियाइक्खे, न मे कप्पइ तारिसं ।।५.१.५०।।
असणं पाणगं वा वि, खाइमं साइमं तहा । जं जाणिज्ज सुणिज्जा वा, वणिमट्ठा पगडं इमं ।।५.१.५१।।