________________
पञ्चदशं गोशालकाख्यं शतकम्
61
त्याजयतीति, ' नङ्केसि कयाइ ' त्ति नष्टः स्वाचारनाशात्, 'असि ' भवसि त्वं, ' कयाइ ' ति कदाचिदिति वितर्कार्थः, अहमेवं मन्ये यदुत नष्टस्त्वमसीति, विणसि ' त्ति मृतोऽसि, ' भट्ठोसि ' त्ति भ्रष्टोऽसि - सम्पदः व्यपेतोऽसि त्वं धर्मत्रयस्य यौगपद्येन योगात् नष्टविनष्टभ्रष्टोऽसीति, ' नाहि ते ' त्ति नैव ते ।
4
' पाईणजाणवए' त्ति प्राचीनजानपदः प्राच्य इत्यर्थः, 'पव्वाविए ' त्ति 5 प्रव्राजितः शिष्यत्वेनाभ्युपगतः, ' अब्भुवगमो पवज्ज' त्ति वचनात्, 'मुंडाविए' त्ति मुण्डितस्य तस्य शिष्यत्वेनानुमननात्, 'सेहाविए' त्ति व्रतित्वेन सेधितः व्रतिसमाचारसेवायां तस्य भगवतो हेतुभूतत्वात्, 'सिक्खाविए ' त्ति शिक्षितस्तेजोलेश्याद्यपदेशदानतः, 'बहुस्सुईकए' त्ति नियतिवादादिप्रतिपत्तिहेतुभूतत्वात्, 'कोसलजाणवए' त्ति अयोध्यादेशोत्पन्नः । 'वाउक्कलियाई 10 व' त्ति वातोत्कलिका स्थित्वा २ यो वातो वाति सा वातोत्कलिका, 'वाय मंडलियाइ व' त्ति मण्डलिकाभिर्यो वाति, ' सेलंसि वा ' इत्यादौ तृतीयार्थे सप्तमी, ' आवरिज्जमाणि ' त्ति स्खल्यमाना, 'निवारिज्जमाणि ' त्ति निवर्त्त्यमाना, 'नो कमइ' त्ति न क्रमते - न प्रभवति, 'नो पक्कमइ ' त्ति न प्रकर्षेण क्रमते, ' अंचितांचि' ति अञ्चिते - सकृद्गते अञ्चितेन वा - सकृद्गतेन देशेनाञ्चिः - पुन- 15 र्गमनमञ्चिताञ्चिः, अथवाऽञ्या - गमनेन सह आञ्चिः - आगमनमञ्चयाञ्चिवर्गमागम इत्यर्थः, तां करोति, ‘अन्नाइट्ठे' त्ति 'अन्वाविष्टः' अभिव्याप्तः, ' सुहत्थि ' त्ति सुहस्तीव सुहस्ती, 'अहप्पहाणे जणे ' त्ति यथाप्रधानो जनो यो यः प्रधान इत्यर्थः, 'अगणिझामिए' त्ति अग्निना ध्मातो - दग्धो ध्यामितो वा ईषद्दग्धः, ' अगणिझूसिए' त्ति अग्निना सेवितः क्षपितो वा, 'अगणिपरिणमिए' त्ति अग्निना 20 परिणामितः - पूर्व स्वभावत्याजनेनात्मभावं नीतः, ततश्व हततेजा धूल्यादिना गततेजाः, क्वचित् स्वत एव नष्टतेजाः, कचिदव्यक्तीभूततेजाः भ्रष्टतेजाः, क्वचित् स्वरूपभ्रष्टतेजा - ध्यामतेजा इत्यर्थः, लुप्ततेजाः क्वचित् अर्द्धभूततेजाः, 'लुप्ल
-