________________
८८ ]
तन्दुलगैचारिकप्रकीर्णकम् स्र गुण्यन्ते ४६०८ शून्यानि पञ्च भवन्ति, चत्वारि कोटिशतानि षष्टिः कोटयः अशीतिलेक्षाणि तन्दुलानामिति । 'तं एवं ति तदेवं सार्धद्वाविंशतिं तन्दुलवाहान् भुञ्जानः साधपञ्चमुद्कुम्भान् भुक्ते साधेपञ्चं मुगकुभान भुञ्जन् चतुर्विंशति स्नेहाढकशतानि भुक्ते चतुर्विंशतिस्नेहाढकशतानि भुञ्जन्षत्रिंशल्लवणपलसहस्राणि भुनक्ति, षटत्रिंशल्लवणपलसहस्राणि भुञ्जन् षट् पट्टकशाटकशतानि 'नियंसेइ'त्ति परिदधाति, द्वाभ्यां मासाभ्यां 'परियट्टएणं'ति परावर्त्तमानत्वेनेति वा अथवा मासिकेन परावर्तनेन द्वादश पट्टशाटकशतानि 'नियंसेइ'त्ति परिदधाति, 'एवामेवे ति उक्तप्रकारेण हे आयुष्मन् ! वर्षशतायुषः पुरुषस्य सर्वं गणितं तन्दुलप्रमाणादिना तुलितं पलप्रमाणादिना मवितमसतिप्रसृत्यादिना प्रमाणेन, तत् किमित्याह ?-स्नेहलवणभोजनाच्छादनमिति । एतत् पूर्वोक्तं गणितप्रमाणं द्विधा भणितं महर्षिभिः, यस्य जन्तोरस्ति तन्दुलादिकं तस्य गुण्यते, यस्य तु नास्ति तस्य किं गुण्यते ?, न किमपीति ।
ववहारगणिय-दिडं सुहमं निच्छयगयं मुणेयव्वं । जइ एवं नवि एवं विसमा गणणा मुणेयव्वा ॥५६॥ कालो परमनिरुद्धो अविभज्जो तं तु जाण समयं तु । समया य असंखिजा हवंति उस्सासनिस्सासे ॥५॥