SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ तन्दुलचारिक प्रकीर्णकम् [ ७५ हे भगवन् ! पृथिव्याः कीदृशः आस्वादः ?, भगवानाह - हे गौतम ! यथा गोक्षीरं चातुरक्यं - चतुःस्थानपरिणामपर्यन्तं, तच्चैवं - गवां पुण्ड्र देशोद्भवेक्षुचारिणीनां अनातङ्कानां कृष्णानां यत्क्षीरं १ तदन्याभ्यः कृष्णगोभ्य एव यथोक्तगुणाभ्यः पानं दीयते २ तत्क्षीरमप्येवंभूताभ्योऽन्याभ्यः ३ तत्क्षीरमप्यन्याभ्यः ४ इति चतुःस्थान परिणामपर्यन्तं, अन्ये त्वेव - माहुः - पुण्ड्रेक्षुचारिणीनां गवां लक्षस्य क्षीरमद्वार्द्धक्रमेण दीयते यावदेकस्याः क्षीरं तच्चातुरक्यमिति, एवंभूतं यच्चातुरक्यं गोक्षीरं खण्डगुडमत्स्यण्डिकोपनीतं मन्दाग्निकथितं, इतोऽपि पृथिव्याः आस्वादः इष्टतर इति, कल्पपादपसत्कानां पुष्पफलानां तु कीदृश आस्वादः ?, यथा चक्रत्तिनः एकान्तसुखावहं भोजनं लक्षनिष्पन्नं शुभवर्णरसगन्धस्पर्शयुक्तं आस्वादनीयं अग्निवृद्धिकरं उत्साहवृद्धिकरं मन्मथजनकं, इतोऽपि चक्रवर्त्तिभोजनादिष्टतर एवास्वाद इति ३ ।। सू०१३ || आसीय समणाउसो ! पुव्विं मणुयाणं छव्विहे संघयणे, तंजहा - वजरिसहनारायसंघयणे १ रिसहनारायसंघयणे २ नारायसंघयणे ३ अडनारायसंघयणे ४ कीलियसंघणे ५ छेवसंघयणे ६, संपइ खलु आउसो ! मणुयाणं छेवट्ठे संघयणे वहइ | आसी य आउसो ! पुव्वि मणुयाणं छव्विहे संठाणे, तंजहा - समचतुरंसे १ नग्गोहपरिमंडले २ सादि ३
SR No.022607
Book TitleTandul Vaicharik Prakirnakam
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy